________________
Jain Education
नतः करिष्यन्ति न नाम निर्जरैवेति भक्तादिदाने यतितव्यमिति । ४ । तथा आर्चगवेषणता, आर्त्तस्य दुःखार्त्तस्य गवेषणमौषधादेरित्यार्त्तगवेषणं तदेवार्त्तगवेषणता पीडितस्योपकारकरणमित्यर्थः । ५ । तथा देशकालज्ञता अवसरज्ञता । ६ । तथा सर्वार्थेष्वप्रतिलोमता आनुकूल्यमिति | ७|२| उक्त विनयः । सांप्रतं वैयावृत्यमुच्यते, तत्र व्यावृत्तभावो वैयावृत्त्यं धर्मसाधनार्थमन्नादिदानमित्यर्थः । आहच - " वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमेस भावत्थो " तच्च दशधा " आयरियउवज्झाए थेरतवस्सी गिलाणसेहाणं | साहम्मियकुलगणसङ्घसङ्गयं तमिह कायवन्ति" तथा सुष्ठु आ मर्यादयाऽध्यायोऽध्ययनं स्वाध्यायः, सच पञ्चधा, वाचना प्रच्छना परिवर्त्तना अनुप्रेक्षा धर्म्मकथा चेति । तथा ध्यातिर्ध्यान मे काग्रचित्तनिरोधस्तच्चतुर्द्धा प्राग्व्याख्यातं, तत्र धर्म्मथुक्के एव तपसी निर्जरार्थत्वान्नेतरे बन्धहेतुत्वादिति । तथा उत्सर्गः परित्यागः, सच द्वेधा द्रव्यतो भावतश्च तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादिविषय इति । उक्तमाभ्यन्तरं तपः । बज्ज्झपि य छबिहं तवोकम्ममिति, बाह्यमित्यासेव्यमानस्य लौकिकैरपि तपस्तया ज्ञायमानत्वात्प्रायो बहिः शरीरतापकत्वाद्वेति बाह्यमपिचेतिसमुच्चये, षडिधमनशनाऽवमौद रिकावृत्तिसङ्क्षेपरसपरित्यागकायक्लेशप्रति संलीनता भेदात्पप्रकारं, किं तदित्याह - तपति दुनोति शरीरकर्माणीति तपस्तस्य कर्म्म क्रिया तपःकर्म्म तपोऽनुष्ठानमित्यर्थः, तत्रानशनमभोजनमाहारत्याग इत्यर्थः, तद्विधा, इत्वरं यावत्कथिकं च, तत्रेत्वरं चतुर्थादि पण्मासान्तमधिकृततीर्थमाश्रित्येति यावत्कथिकं त्वाजन्मभावि त्रिधा पादपोपगमनेङ्गितमरणभक्तपरिज्ञाभेदात्तत्र पादपो वृक्षस्तस्येव च्छिन्नपतितस्योपगमनं अत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिन् तत्पादपोपगमनं, तथेङ्गिते नियमिते देश इति गम्यते मरणं मरण
For Private & Personal Use Only
jainelibrary.org