________________
पाक्षिकसू०
वृत्तिः
॥४०॥
कारण स्तवनवन्दनादिः, अभ्युत्थानं विनयाहस्य दर्शनादेवासनत्यजनं, सन्मानो वस्त्रपात्रादिपूजनम् , आसनाभिग्रहः पुन|स्तिष्ठत आदरेणासनानयनपूर्वकमुपविशतात्रेति भणनम्, आसनानुप्रदानं तु आसनस्य स्थानात् स्थानान्तरसंचारणं, कृतिकर्म द्वादशावर्त्तवन्दनकं शेषं प्रकटमिति। उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषाविनय इति । अनाशातनाविनयस्तु अनुचित क्रियाविनिवृत्तिरूपोऽयं पञ्चदशविधः आहच "तित्थयर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६गणे ७ सङ्घ ८॥ संभोगिय ९ किरियाए १० मइनाणाईण य तहेव" सांभोगिका एकसामाचारीकाः, क्रिया आस्तिकता । अत्र भावनातीर्थकराणामनाशातनायां वर्तितव्यमित्येवं सर्व द्रष्टव्यमिति । "कायबा गुण भत्ती बहुमाणो तह य वन्नवाओ य । अरहन्तमाइआणं केवलनाणावसाणाणं" उक्तो दर्शनविनयः । सांप्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयः चारित्रस्य वा श्रद्धानादिरूपो विनयः । आहच-“सामाइयाइचरणस्स सद्दहाणं १ तहेव कारणं । संफासणं २ परूवणमह पुरओ सबसत्ताणं ३ ति" मनोवचनकायविनयास्तु मनःप्रभृतीनां विनयाहेषु कुशलप्रवृत्त्यादिरूपाः यदुक्तं-" मण वइकायविणओ आयरियाईण सबकालंपि । अकुसलाण निरोहो कुसलाण उदीरणं तह य” लोकानामुपचारो व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः,स चाभ्यासवर्त्तित्वादिभेदात्सप्तधा,तत्राभ्यासवर्त्तित्वं प्रत्यासत्तिवर्तित्वं, श्रुताद्यार्थिना हि आचार्यादेः समीपे आसितव्यमित्यर्थः । १। तथा परच्छन्दोऽनुवर्त्तित्वं पराभिप्रायानुवर्त्तित्वं । २ । तथा 31॥ ४० ॥ कायहेतोः, कार्य श्रुतप्रापणादिकं हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः विशेषेण तस्य विनये वर्तितव्यं तदनुष्ठानं कर्त्तव्यमिति । ३ । तथा कृतप्रतिकृतिता, कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकारं सूत्रादिदा
Jain Education
a
l
For Private & Personel Use Only
Mw.jainelibrary.org