SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ तथा व्यवशमितस्योपशमं नीतस्याधिकरणस्य कलहस्योदीरणवचनं प्रवर्तनवाक्यं व्यवशमिताधिकरणोदीरणवचनं षष्ठ-10 | मिति अत्र गाथा "खामियवोसमियाई अहिगरणाई तु जे उदीरिंति। ते पावा नायबा तेसिं चारोवणा इणमोत्ति" शेष प्राग्वदिति । तथा छविहमभितरयं बज्ज्झं पिय छविहं तवोकम्म। उवसंपन्नो जुत्तो रक्खामि महत्वए पंच॥ १३॥ पडिधं प्रायश्चित्तविनयवैयावृत्यस्वाध्यायध्यानोत्सर्गभेदात्षप्रकारं अन्भिन्तरयन्ति लौकिकैरनभिलक्ष्यत्वात्तत्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाञ्चाभ्यन्तरं तदेवाभ्यन्तरकं तपःकर्मेतियोगः, तत्रेह चित्तं जीवो | भण्यते, ततः प्रायो बाहुल्येन चित्तं जीवं विशोधयत्यतिचारजनितकर्ममलमलिनं निर्मलं करोतीति प्रायश्चित्तं आलोचनादि दशविधमिति, विनीयतेऽष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनचारित्रमनोवचनकायलोकोपचारविनयभेदात्स-2 प्तधा, तत्र ज्ञानमाभिनिबोधकादि पञ्चधा तदेव विनयो ज्ञानस्य वा विनयो भत्त्यादिकरणं ज्ञानविनयः। उक्तं च-"भत्ती तह बहुमाणे २ तद्दिडत्थाण सम्म भावणया ३ । विहिगहण ४ ब्भासो वि य एसो विणओ जिणाभिहिओ"दर्शनं सम्य-IN त्वं तदेव विनयो दर्शनस्य वा तदव्यतिरेकाद्दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो विनयो दर्शनविनयः उक्तं च-"सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दसणगुणाहिएK कज्जइ सुस्सूसणाविणओ । १ । सक्कारभुटाणे २ सम्माणासणपरिग्गहो ४ तहय । आसणमणुप्पयाणं ५ किइकम्मं ६ अञ्जलिगहोय ।७।२। एतस्सणुगच्छणया। ८ । ठियस्स तह पजुवासणा भणिया । ९ । गच्छन्ताणुबयणं १० एसो सुस्सूसणाविणओ।३।" इह च स Jain Education na For Private & Personal Use Only jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy