________________
पाक्षिकसू०
उच्छोलणाई आसाएमाणे जाव मणं उच्चावयं नियच्छइ विणिग्यायमावजइ चउत्था दुहसेज्जा" अगारवासो गृहवासः तमावसामि तत्र वर्ते संबाधनं शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेषः, परिमईनं तु पृष्टादेर्मलनमात्रं परि-| शब्दस्य धात्वर्थमात्रवृत्तित्वात् , गात्राभ्यङ्गस्तैलादिनाङ्गम्रक्षणं गात्रक्षालनमङ्गधावनमेतानि लभे न कश्चिन्निषेधतीति शेषंडू कण्ठ्यमिति चतुर्थी । तथा चतस्रश्चतुःसङ्ख्याकाः का इत्याह-संज्ञानानि संज्ञा असातवेदनीयमोहनीयकर्मोदयजन्याश्चेतना, विशेषास्ताश्चेमाः आहारसंज्ञा १ भयसंज्ञा २ मैथुनसंज्ञा ३ परिग्रहसंज्ञा च ४ । तत्राहारसंज्ञा आहाराभिलाषः, सा पुनश्चतुर्भिः स्थानरुत्पद्यते । तद्यथा-"ओमकोठ्याए १ छुहावयणिज्जस्स कम्मस्स उदएणं २ मईए ३ तदह्रोवओगेणं ४" अवमकोष्ठतया, रिक्तोदरतया, मत्या आहारकथाश्रवणादिजनितबुद्ध्या, तदर्थोपयोगेन सततमाहारचिन्तया।
भयसंज्ञा भयमोहनीयसंपाद्यो जीवपरिणामः, इयमपि चतुर्भिः स्थानैः समुत्पद्यते । तद्यथा-"हीणसत्तयाए १ भयनमोहणिज्जोदएणं २ मईए ३ तदह्रोवओगेणं ॥४॥" हीनसत्त्वतया सत्त्वाभावेन, मतिर्भयवार्ताश्रवणभीषणदर्शनादि-16
जनिता बुद्धिस्तया, तदर्थोपयोगेन इहलोकादिभयलक्षणार्थपर्यालोचनेनेति । मैथुनसंज्ञा वेदोदयजनितो मैथुनाभिलाषः, 5 इयमपि चतुर्भिः स्थानरुत्पद्यते तद्यथा “चियमंससोणियाए १ वेयमोहणिज्जोदएणं २ मईए ३ तदहोवओगेणं४" चिते उपदूचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया, मत्या सुरतकथाश्रवणादिजनितबुद्ध्या, तदर्थो-6॥३६ ॥ हैपयोगेन मैथुनलक्षणार्थानुचिन्तनेनेति । परिग्रहसंज्ञा चारित्रमोहोदयजनितः परिग्रहाभिलाषः, इयमपि चतुर्भिः स्थानै-*
रुत्पद्यते तद्यथा-"अविमुत्तयाए १ चारित्तमोहणिज्जोदएणं २ मईए ३ तदहोवओगेणं ४” अविमुक्ततया सपरिग्रहतया
Jain Education
For Private Personel Use Only
Mis.jainelibrary.org