________________
SCAL
अथवा चयस्य कर्मणां रिक्तीकरणाच्चरित्रं निरुक्तन्यायादिति चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परि
णामस्तल्लक्षणो धर्मः श्रेयश्चारित्रधर्मस्तं, द्वे च द्विसङ्खये च ध्याने प्रणिधाने धर्म्य शुक्लं च धHशुक्ले तत्र श्रुतचरणधर्मादूदनपेतं धर्म्यं तच्च सर्वज्ञाज्ञानुचिन्तनम् ॥ १॥ रागद्वेषकषायेन्द्रियवशजन्त्वपायविचिन्तनम् ॥ २॥ ज्ञानावरणादिशु|भाशुभकर्मविपाकसंस्मरणम् ॥ ३ ॥ क्षितिवलयद्वीपसमुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकम् ॥४॥ जिनप्रणीतभावश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यम् । तथा शोधयत्यष्टप्रकार कर्ममलं शुचं वा शोक कुमयत्यपनयतीति निरुक्तविधिना शुक्लम् एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्यगतोत्पत्तिस्थितिभङ्गादिपर्यायानुस्मरणादिस्वरूपम् । अवधासंमोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयं । शेषं प्राग्वत् ज्ञेयमिति ॥ तथा | किन्हा नीला काऊ तिन्नि य लेसाउ अप्पसत्थाउ । परिवजन्तो गुत्तो रक्खामि महत्वए पञ्च ॥५॥ | किण्हत्ति विभक्तिव्यत्ययात्कृष्णम् एवं नीलत्ति नीलां काऊत्ति कापोतीं चेत्येतास्तिस्रस्त्रिसङ्घयाः चशब्दो योजित एव, लिश्यन्ते श्लिष्यन्ते प्राणिनः कर्मणा यकाभिस्ता लेश्याः कृष्णादिद्रव्योपाधिका जीवपरिणामविशेषा आहच "श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः। तथा "कृष्णादिद्रव्यसचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यत" इति । ताः किंविशिष्टा इत्याह-अप्रशस्ता अप्रशस्तस्वरूपत्वात् क्लिष्टकर्मबन्धहेतुत्वाच्चारित्रादिगुणलाभविघातनिमित्तत्वाच्चासुन्दराः किमित्याह-परिवर्जयन्नित्यादि पूर्ववदिति ॥ तथा तेऊ पम्हा सुका तिन्नि य लेसाउ सुप्पसत्थाओ। उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥६॥
म्यं मोक्षादिफलप्रसाधक बनानानयमतैकद्रव्यगतोत्पत्तिस्थिति वा शोकं लमय
A MICROCOMSACROS*
Jain Education
a
l
For Private Personel Use Only
U
rjainelibrary.org