________________
पाक्षिकसू०रागः, अनाभव्यक
रागः, अनभिव्यक्तक्रोधमानलक्षणभेदस्वभावमप्रीतिमात्रं तु द्वेषः तौ परिवर्जयन्नितियोगः । तथा द्वे च द्विसङ्खये च ध्यायते चिन्त्यते वस्त्वाभ्यामिति ध्याने, ध्याती वा ध्याने, अन्तर्मुहूर्त्तमात्रकालमेकाग्रचित्ताध्यवसाने यदाह-"अन्तोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं ज्झाणं जोगनिरोहो जिणाणं तु" ते एव नामग्राहमाह-आर्त च रौद्रं चातरौद्रे तत्र ऋतं दुःखं तस्य निमित्तं, तत्र वा भवं, ऋते वा पीडिते प्राणिनि भवमा तच्चामनोज्ञानां शब्दरूपरसगन्धस्पर्शलक्षणानां विषयाणां तदाश्रयभूतवायसादिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानं,भाविनां वाऽसंप्रयोगचिन्तनम् ॥१॥एवं शूलशिरोरोगादिवेदनाया अपि विप्रयोगप्रार्थनम् ॥२॥ इष्टशब्दादिविषयाणां सातवेदनायाश्चावियोगसंप्रयोगप्रार्थनं ॥३॥ देवेन्द्रचक्रवादिसंबन्ध्यद्धिप्रार्थनं च ॥४॥ शोकाक्रन्दनस्वदेहताडनविलपनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विज्ञेयं । तथा रोदयतीति रुद्र आत्मैव तस्य कर्म रौद्रं तदपि सत्त्वेषु वधवेधवन्धनदहनाङ्कनमारणादिप्रणिधानम् ॥ १॥ पैशून्यासत्यासद्भूतभूतघातादिवचनचिन्तनम् ॥२॥ तीव्रकोपलोभाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानम् ॥ ३ ॥ सर्वाभिशङ्कनपरं परोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्र|णिधानम् ॥४॥ उत्सन्नवधादिगम्यं नरकगतिगमनकारणं समवसेयं । एते च किमित्याह-परिवर्जयन् गुप्तः सन् रक्षामि |महाव्रतानि पञ्चेति ॥ तथा BI दुविहं चरित्तधम्मं दुन्नि य ज्झाणाइ धम्मसुक्काइं । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥४॥ द द्विविधं देशसर्वचारित्रभेदाद्विप्रकारं चर्यते मुमुक्षुभिरासेव्यते तदिति, चर्यते वा गम्यतेऽनेन निर्वृताविति चरित्रं
। ३३॥
Jain Education
a
l
For Private Personel Use Only
Vevjainelibrary.org