________________
सामान्यादेकविधमिति । किमित्याह-परिवर्जयन् परिहरन् , गुप्तो मनोवचनशरीरैः संवृत्तः सन् , रक्षामि सुविशुद्धानि परिपालयामि महाव्रतान्युक्तलक्षणानि पञ्चेति पञ्चसङ्खयानीति । तथा
अणवज्जजोगमेगं सम्मत्तं एगमेव नाणं तु । उवसम्पन्नो जुत्तो रक्खामि महत्वए पश्च ॥२॥ अनवद्ययोगं कुशलानुष्ठानम् एकं सकलकुशलानुष्ठानानामनवद्ययोगत्वाव्यभिचारादेकप्रकारं । तथा सम्यक्त्वमिति सम्यक्शब्दः प्रशंसार्थः सम्यगित्येतस्य भावः सम्यक्त्वं दर्शनमोहनीयक्षयक्षयोपशमोपशमाविर्भूता जिनोक्ततत्त्वश्रद्धानरूप आत्मपारिणामस्तच्चोपाधिभेदादनेकप्रकारमपि श्रद्धानसामान्यादेकमेव, एकप्रकारमेव एकजीवस्य चैकदैकस्यैव भावादिति । तथा नाणं तुत्ति तुशब्दस्याप्यर्थत्वात् ज्ञानमप्येकविधमेव, तत्र ज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनेति ज्ञानमाव| रणक्षयक्षयोपशमादिसमुत्पन्नो मतिश्रुतादिविकल्पात्मको जीवस्यावबोधपरिणामः तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा तथाहि-लब्धितो बहूनां बोधविशेषाणामेकदा संभवेऽप्युपयोगत एक एव संम्भवत्येकोपयोगत्वाज्जीवानामिति । नन्ववबोधसामान्यात्सम्यक्त्वज्ञानयोः कः प्रतिविशेषः । उच्यते । रुचिः सम्यक्त्वं, रुचिकारणं तु ज्ञानं यथोक्तं "नाणमवायधिईओ दंसणमिह जहोग्गहेहाओ । तह तत्तरुई सम्मं रोइजई जेण तं नाणं" एतत्किमित्याह-उपसंपन्नः प्रतिपन्नो युक्तः श्रमणगुणैः रक्षामि पालयामि महाव्रतानि भणितस्वरूपाणि पञ्चेति पञ्चसङ्ख्यापरिच्छिन्नानीति ॥ तथा
दो चेव रागदोसे दुन्नि य झाणाइ अहरोदाइं। परिवजन्तो गुत्तो रक्खामि महत्वए पश्च ॥३॥ द्वावेव द्विसङ्घयावेव कावित्याह-रागश्च द्वेषश्च रागद्वेषौ तत्र अनभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रं
Jain Education
For Private Personel Use Only
jainelibrary.org