SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० ॥ ३२ ॥ Jain Education शीतातपादिसहनगुरुकुलवसनादिलक्षणैः श्रमणगुणैः समन्वितः । तथा गुप्तित्रयेण गुप्तः स्थितो व्यवस्थितः, श्रमणधर्मे क्षान्त्यादिके यत्यनुष्ठाने, प्रथममाद्यं व्रतं यमम् अनुरक्षामि सदातिचारविरहितं पालयामि, विरयामोति वचनव्यत्ययाद्विरतोऽस्मि प्राणातिपातात्, इत्येवं शेषसूत्राण्यपि द्वितीयादित्रताभिलापेन नेतव्यानि, नवरं सप्तमसूत्रस्योत्तराद्धे विशेषो यथा त्रिविधेन मनोवाक्कायलक्षणेन करणेनाप्रमत्तः सुप्रणिहितः, रक्षामि स्वजीवितमिवादरेण पालयामि महाव्रतान्युक्तलक्षणानि पश्चेति पञ्चसङ्ख्यानीति । इदानीमेकाकोत्तरवृद्धिकानां दशान्तानां शुभाशुभस्थानानां परिवर्ज - नाङ्गीकारकरणद्वारेण महाव्रतपरिरक्षणाभिधानायाह सावज्जजोगमेगं मिच्छत्तं एगमेव अन्नाणं । परिवज्जन्तो गुत्तो रक्खामि महवए पञ्च ॥ १॥ air सहावद्येन यो वर्त्तते स सावद्यः सचासौ योगश्च व्यापारस्तमेकमेकभेदं सकलनिन्द्यकर्मणां सावद्ययोगत्वाव्यभिचारादिति । तथा मिथ्या इत्येतस्य भावो मिथ्यात्वं, मिथ्यात्वमोहनीयकर्मोदयजन्यो विपर्यस्ताध्यवसाय रूपो जीवपरिणामस्तन्निमित्तलौकिकदेवतादिवन्दनादिक्रिया च तदेकम् आभिग्रहिकानाभिग्रहिकाभिनिवेशिकानाभोगिक सांशकिभेदात्पञ्चविधमपि उपाधिभेदतो बहुतरभेदमपि वा विपर्ययसाम्यादेकप्रकारम् । तथा एवत्ति अनुस्वारलोपादेवं मिथ्यात्ववदेकविधमित्यर्थः । अन्नाणंति नञः कुत्सार्थत्वात् कुत्सितं ज्ञानमज्ञानं संशयविपर्ययानध्यवसायात्मको ज्ञानावरणदर्शनावरणकर्मोदयप्रभवो जीवस्यावबोधपरिणामस्तत्प्रभवग्रन्थविशेषाश्च तदप्युक्तक्रमेणानेकविधमप्यबोध nal For Private & Personal Use Only वृत्तिः ॥ ३२ ॥ www.jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy