________________
पाक्षिकसू० ॥३४॥
| तेउत्ति तैजसी पम्हत्ति पद्मा सुकत्ति शुक्लां चेत्येतास्तिस्रस्त्रिसङ्घयाश्चशब्दः प्राग्योजित एव लेश्याः परिणामविशेषाः, वृत्तिः सप्रशस्ताः शुभस्वरूपत्वात् शुभकर्मवन्धहेतुत्वाच्चारित्रादिगुणलाभकारणत्वात् शुभगतिनिबन्धनत्वाच्च सुन्दराः किमित्याह-उपसंपन्न इत्यादिपूर्ववदिति । तत्र कृष्णा वर्णतः स्निग्धजीमूतगवलव्यालभ्रमराञ्जनादिसमानवणेः, रसतो रोहिणीपिचुमन्दकटुकतुम्बकादिसमधिकतमरसैः, गन्धतः कुथितगोकडेवरादिसमधिकतमगन्धैः, स्पर्शतः क्रकचादिसमधिकतमस्पर्शः, सकलकर्मप्रकृतिनिष्पन्दभूतैः, कृष्णद्रव्यैर्जनितत्वात्कृष्णाभिधाना । नीला तु वर्णतो नीलाशोकगुलिकावैडूर्येन्द्रनीलचापपिच्छादिसमवणः, रसतो मरिचपिप्पलीनागरादिसमधिकतररसैः, गन्धतो मृततुरगशरीरादिसमधिकतरगन्धैः, स्पर्शतो गोजिह्वादिसमधिकतरकर्कशप ः, सकलप्रकृतिनिष्पन्दभूतैनीलद्रव्यर्जनितत्वान्नीलाभिधाना । कापोती तु वर्णतोऽतसीकुसुमपारापतशिरोधराफलिनीकन्दलादिधूनद्रव्यतुल्यवर्णैः, रसतस्तरुणाम्रबालकपिस्थादिसमधिकरसैः, गन्धतः कुथितसरीसृपादिसमधिकगन्धैः, स्पर्शतः कठोरपलाशतरुपत्रादिसमधिकस्पर्शः, सकलप्रकृतिनिष्पन्दभूतैः कपोताभद्रव्यनिष्पन्नत्वात्कापोतीसंज्ञा । तैजसी तु वर्णतो वह्निज्वालशुकमुखकिंशुकतरुणाकहिङ्गुलुकादि-| लोहितद्रव्यसमानवणेः, रसतः परिणताम्रसुपक्ककपित्थादिसमधिकरसैः, गन्धतो विचकिलपाटलादिसमधिकगन्धैः, स्पर्शतः शाल्मलीफलतूलादिसमधिकस्पर्शः, तेजोवर्णद्रव्यैर्निष्पन्नत्वात्तैजसीसंज्ञा । पद्मा तु वर्णतो हरिद्राहरितालादि-|॥ ३४ ॥ पीतद्रव्यसमवणः, रसतो वरवारुणीमध्वादिसमधिकरसैः, गन्धतः शतपत्रिकापुटपाकगन्धादिसमधिकतरगन्धैः, स्पर्शतो नवनीतरुतादिसमधिकतरसुकुमारस्पशैंः, पद्मगर्भाभद्रव्यनिष्पन्नत्वात्पद्माभिधाना । शुक्ला तु वर्णतः शङ्खकुन्देन्दुहारक्षी
in Education
For Private Personal Use Only
S
ejainelibrary.org
LP