________________
पाक्षिकसू०
॥ ३१ ॥
Jain Education In
1569
राध्य अखण्डितानि परिपाल्य, विराधना च ज्ञानदर्शनयोः प्रत्यनीकतादिलक्षणा पञ्चविधा यदाह - " नाणपडिणीयनिह्व अच्चा सायणतदन्तरायं च । कुणमाणस्सइयारो नाणविसंवायजोगं च" तत्र ज्ञानप्रत्यनीकता पञ्चविधज्ञाननिन्दया तद्यथा-आभिनिबोधिकज्ञानमशोभनं यतस्तदवगतं ज्ञानं कदाचिदन्यथेति श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यगोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमये अकेवलत्वादशोभनमिति । दर्शनप्रत्यनीकता तु क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इत्यतः किं दर्शनेनेति निन्दया । निह्नवो व्यपलापः, स च ज्ञानस्यान्यसका शेऽधीतमन्यं व्यपदिशतो जायते, दर्शनस्यापि सम्मत्यादिदर्शनप्रभावकशास्त्राण्यधिकृत्यैवमेव द्रष्टव्यम् । अत्याशातना तु ज्ञानस्य " काया क्या य ते च्चिय ते चैव पमाय अप्पमाया य । मोक्खाहिगारियाणं जो इसजोणीहि किं कजं" दर्शनस्य तु किमेभिः सम्मत्यादिभिः कलहशास्त्रैरिति । अन्तरायं द्वयोरपि कलहास्वाध्यायिकादिभिः करोति । ज्ञानविसंवादयोगोऽकालस्वाध्यायादिना दर्शनविसंवादयोगस्तु शङ्काकाङ्क्षादिनेति । चारित्रविराधना पुनः सावद्ययोगानुमत्यादि - लक्षणा विचित्रेति । एतान्यविराध्य किमित्याह-स्थितः समारूढः सन् केत्याह- श्रमणधर्मे श्रमणानां साधूनां धर्मः क्षान्त्यादिलक्षणः समाचारः तस्मिन् किं करोमीत्याह - प्रश्रममाद्यं व्रतं यमम्, अणुरक्खेत्ति अनुरक्षामि सर्वातिचारविरहितं पालयामि किंविशिष्ट इत्याह-विरया मोति वचनस्य व्यत्ययाद्विरतोऽस्मि निवृत्तोऽहं कस्मात्प्राणातिपाताज्जीववधा
For Private & Personal Use Only
वृत्तिः
॥ ३१ ॥
jainelibrary.org