________________
पाक्षिकसू०
रसाश्च मधुरादिविशिष्टास्वादाः, गन्धाश्च स्रकन्दनादिदिव्यपरिमलाः, स्पर्शाश्च मृदुतूलीयोषिदङ्गादिस्पर्शास्ते तथा, तेषांक प्रविचारणा रागात्प्रतिसेवना, मैथुनस्याब्रह्मासेवनस्य, विरमणे एष उक्तोऽतिक्रमोऽतिचारस्तस्मादेतान्न कुर्यादिति हृदयमिति । परिग्रहव्रतमुररीकृत्याह| इच्छा मुच्छा य गेही य कला लोभे य दारुणे। परिग्गहस्स वेरमणे एस वुत्ते अइकमे ॥५॥
इच्छा मूर्छा च गृद्धिश्च काङ्क्षा लोभश्च दारुण इत्येकार्थानि अबुधबोधनायोपन्यस्तानि । अथवा इच्छा अनागतान्यतरार्थप्रार्थना, मूळ च हृतातीतनष्टपदार्थशोचना, गृद्धिश्च विद्यमानपरिग्रहप्रतिबन्धः, अप्राप्त विविधार्थप्रार्थना कासा तद्रूपो लोभः काटालोभश्च, चशब्दाः समुच्चये किंविशिष्टो? दारुणस्तीव्रः, परिग्रहस्य विरमणे एष उक्तोऽतिक्रम इति पूर्ववत् ॥ षष्ठव्रतमुररीकृत्याह___ अइमत्ते य आहारे सूरखेत्ते य संकिए । राईभोयणस्स वेरमणे एस वुत्ते अइक्कमे ॥६॥
साधूनां हि कवलापेक्षया भोजनमानमिदं यदुत "बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला" षड्भागकल्पितजठरापेक्षया त्विदं 'अद्धं असणस्स सर्वजणस्स कुज्जा दवस्स दो भागे । G |वाउपवियारणहा छब्भागं ऊणगं कुज्जा" ततश्चास्माच्छास्त्रीयभोजनप्रमाणादधिकोऽतिमात्रश्च पूर्ववदाहारो भोजनं भुक्त इति गम्यते, दिवापि हि समधिकभोजने कृते रात्री भुक्तानगन्धोद्गाराः प्रजायन्ते, वमनं वा कदाचित्, तत्रच रात्रिभोजन
॥३०॥
in Education
m
ana
For Private & Personel Use Only
vijainelibrary.org