________________
व्यापाराः, परिणामाश्च भूतघाताद्यध्यवसायाश्च पूर्वपदापेक्षया समुच्चये, दारुणा रौद्राः, प्राणातिपातस्य प्राणि(प्राण)प्रहाणस्य, विरमणे निवृत्तावेषोऽयमुक्तो भगवद्भिः प्रतिपादितोऽतिक्रमोऽतिचार इति मत्वा तान् परिहरेदितिभावः । एवमुत्तरत्रापि भावना कार्या ॥ द्वितीयव्रतमधिकृत्याह| तिवरागा य जा भासा तिवदोसा तहेव य । मुसावायस्स वेरमणे एस वुत्ते अइक्कमे ॥२॥
तीव्ररागा उत्कटविषयानुबन्धा या काचिद्भाष्यत इति भाषा भारती, तीब्रद्वेषा उग्रमत्सरा, तथैव चेति समुच्चयपूरणान्यव्ययानि, मृषावादस्य वितथभाषणस्य, विरमणे विरतावेषोऽयम् उक्तो जिनर्गदितो, ऽतिक्रमो देशभङ्गः सर्वभङ्गो वेति भावः । तृतीयव्रतमाश्रित्याह--- | उग्गहं च अजाइत्ता अविदिपणे य उग्गहे । अदिण्णादाणस्स वेरमणे एस वुत्ते अइक्कमे ॥३॥
अवगृह्यत इत्यवग्रह आश्रयस्तमयाचित्वा तस्मात् स्वामिनः स्वामिसन्दिष्टाद्वा सकाशादननुज्ञाप्य तत्रैव यदवस्थानमितिगम्यते, तथा अविदत्ते वाऽवग्रहस्वामिनाऽवितीर्णेऽवग्रहे प्रतिनियताऽवग्रहमर्यादाया बहिरित्यर्थः यच्चेष्टनमितिवाक्यशेषः । अदत्तादानस्य विरमणे एष उक्तोऽतिक्रमो विराधनेत्यर्थः । चतुर्थव्रतमङ्गीकृत्याह
सद्दारूवारसागन्धाफासाणं पवियारणा। मेहुणस्स वेरमणे एस वुत्ते अइक्कमे ॥ ४॥ आकारस्तेहागमिकत्वात् शब्दाश्च प्रक्रमाद्वेणुवीणाकामिनीसमुत्थकलध्वनयः, एवं रूपाणि च ललनादिमनोहराकृतयः,
Jain Education
For Private
Personal Use Only
K
ainelibrary.org