SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० ॥२३॥ तन्मैथुनं चतुर्विधं प्रज्ञप्तं तद्यथा-द्रव्यतः १ क्षेत्रतः २ कालतः ३ भावतः ४ । तत्र द्रव्यतो मैथुनं रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवतिः तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि पुरुषाङ्गनाशरीराणि । भूषणविकलानि वा रूपाणि, भूषणसहितानि तु रूपसहगतानि । क्षेत्रतो मैथुनं ऊर्द्वलोके वा मेरुवनषण्डसौधर्मेशानादिषु संभवति, अधोलोके वा अधोग्रामभवनपतिभवनादिषु, तिर्यग्लोके वा द्वीपसमुद्राचलादिषु, अथ ऊर्ध्वाधस्तिर्यग्लोकपरिज्ञानार्थमिदमुच्यते 'इहोधिश्चतुर्दशरज्जुप्रमाणस्य सर्वतो वृत्तस्य तिर्यक्रस्थाने विचित्रमानस्य वैशाखस्थानस्थितकटिस्थकरयुग्मपुरुषाद्याकृतेर्लोकस्य बहुमध्यदेशभागे उर्ध्वाधोऽष्टादशयोजनशतमानस्तिर्यग्लोक उच्यते । तस्य च बहुमध्ये अङ्गलासङ्ख्येयभागमात्रलोकाकाशप्रतरा अलोकेन संवर्तिताः सर्वक्षुलकप्रतराः सर्वतो रज्जुप्रमाणाः सन्ति | तेषां बहुमध्यवर्त्तिनो द्वयोः क्षुल्लकप्रतरयोबहुमध्ये जम्बूद्वीपे रत्नप्रभापृथिव्या बहुसमभूभागे मन्दरस्य बहुमध्ये अष्टप्र देशो रुचकः मास्ति, यतोऽयं दिग्विभागःप्रवृत्त इति, एतत्तिर्यग्लोकमध्यं, एतस्मात्तिर्यग्लोकमध्याद्रजुप्रमाणक्षुल्लकप्रतरेभ्य | उपरि तिर्यगसङ्खयेयाङ्गुलभागवृद्धिरुपरिमुखं चाङ्गुलासंख्येयभागारोह एवास्ति, एवं तिर्यगुपरि चाङ्गलासंख्येयभागवृद्ध्या तावल्लोकवृद्धिर्ज्ञातव्या यावदूर्द्धलोकमध्यं, ततः पुनस्तेनैव क्रमेण संवतः कर्तव्यो यावदुपरि लोकान्तो रजुप्रमाण इति । तिर्यग्लोकमध्यरजुप्रमाणक्षुलकप्रतरेभ्योऽप्यधस्तात् तिर्यगगुलासङ्ख्येयभागवृद्धिरधोवगाहेनाप्यगुलासङ्ख्येयभागवृ-| |द्धिरेवं कर्तव्या, एवमधोलोकस्तावद्वर्द्धयितव्यो यावदधोलोकान्तो द्विधापि सप्तरज्जुप्रमाणो जायते इति । इह च वृद्धा वदन्ति 'उपरिमुखादधोमुखाच्चाङ्गुलासङ्ख्यभागाल्लघुतरस्तिर्यगडुलासङ्ख्येयभागो द्रष्टव्योऽन्यथा लोकबहुत्वप्राप्तेरिति ये 5 ॥२३॥ in Educatan i For Private & Personel Use Only IMS jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy