SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ५० ४ भदन्त महात्रते किमित्याह - मृषावादादलीकभाषणाद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं भगवतोक्तमिति वाक्यशेषः । स च मृषावादश्चतुर्विधः तद्यथा सद्भावप्रतिषेधः १ असद्भावोद्भावनं २ अर्थान्तराभिधानं ३ गहवचनं च ४ तत्र सद्भावप्रतिषेधो यथा “नास्त्यात्मा नास्ति पुण्यं पापं वेत्यादि" मृषात्वं चास्यात्माद्यभावे दानध्यानाध्ययनादिसर्वक्रियावैयर्थ्यप्रसङ्गात् जगद्वैचित्र्याभावप्रसङ्गाच्च । असद्भावोद्भावनं यथा “श्यामाकतन्दुलमात्र आत्मा ललाटस्थो हृदय| देशस्थः सर्वगतो वेत्यादि” अलीकता चास्य वचसः श्यामाकतन्दुलमात्रे ललाटस्थे हृदयदेशस्थे वात्मनि सर्वशरीरे सुखदुःखानुभवानुपपत्तेर्निरात्मनि वस्तुनि वेदनाया अभावात्, सर्वजगद्व्यापित्वे सर्वत्र शरीरोपलम्भः सुखदुःखानुभवश्चाविशेषेण स्यान्नचैवं दृश्यते तस्मादलीकतेति । अर्थान्तराभिधानं " गामश्वं ब्रुवाणस्येत्यादि" । गवचनं तु "काणं काणमेव वदत्यकाणमपि वा काणमाह एवमन्धकुब्जदासादिष्वपि भावनीयं” अथवा परलोकमङ्गीकृत्य गर्हार्ह वचनं गवचनं तच्च "दम्यन्तां बलीवर्दादयः, प्रदीयतां कन्या वरायेत्यादि" । यतश्चैवमत उपादेयमेतदिति विनिश्चित्य सर्व समस्तं भदन्त मृषावादमनृतवचनं प्रत्याख्यामि । सेत्ति तद्यथा क्रोधाद्वा कोपात्, लोभाद्वा, अभिष्वङ्गात् । आद्यन्तग्रहणाञ्च मानमायापरिग्रहो वेदितव्यः । भयाद्वा भीतेः, हास्याद्वा हसनात्सकाशात्, अनेन तु प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः । वा शब्दाः समुच्चये । अस्मात्किमित्याह - "नेव सयं मुसं वएज्जत्ति” नैव स्वयमात्मना, मृषा मिथ्या, वदामि वच्मि, नैवान्यैः परैर्मृषा वितथं, वायावेजत्ति वादयामि भापयामि, मृषावदतोऽपि भाषमाणानप्यन्यानपरान् न नैव समनुजानामि अनुमोदयामि । कथमित्याह - यावज्जीवं यावत्प्राणधारणं, त्रिविधं कृतकारितानुमतिभेदात्रिप्रकारं, त्रिविधेन For Private & Personal Use Only jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy