SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० वृत्तिः पारगमनाय, मे भविष्यतीति गम्यत इतिकृत्वा इतिहेतोः, उपसंपद्य तदेव सामस्त्येनाङ्गीकृत्य, विहरामि मासकल्पादिना सुसाधुविहारेण वर्ते अन्यथा व्रतप्रतिपत्तेवैयर्थ्यप्रसङ्गादिति । अथ व्रतप्रतिपत्तिं निगमयन्नाह पढमे भन्ते महत्वए उवडिओमि सबाओ पाणाइवायाओ वेरमणं ॥ प्रथमे भदन्त महाव्रते किमित्याह-उप सामीप्येन तत्परिणामापत्त्येत्यर्थः स्थितो व्यवस्थितोऽस्मि अहं ततश्च इत आरभ्य मम सर्वस्मान्निःशेषात्प्राणातिपाताजीवहिंसाया विरमणं निवृत्तिरिति । अत्र च भदन्त इत्यनेन गुर्वामन्त्रणवचसादिमध्यावसानेषूपन्यस्तेन गुरुमनापृच्छय न किंचित्कर्त्तव्यं कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवतीत्ये-18 तदाह । दोषाश्चेह प्राणातिपातकर्तृणां नरकगमनाल्पायुबहुरोगित्वकुरूपादयो वाच्याः । इत्युक्तं प्रथमं महाव्रतं ॥ इदानीं द्वितीयमाह- . अहावरे दोचे भन्ते महत्वए मुसावायाओ वेरमणं सवं भन्ते मुसावायं पञ्चक्खामि से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वएज्जा नेवन्नेहि मुसं वायावेजा मुसं वयन्तेवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि क-1॥१८॥ रन्तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ अथेति प्रथममहाव्रतानन्तरे अपरस्मिन्नन्यस्मिन् द्वितीये सूत्रक्रमप्रामाण्याद्विसंख्ये द्वितीयस्थानवर्तिनीत्यर्थः । Jain Education For Private & Personel Use Only Im jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy