________________
पाक्षिकसू० ॥ १९ ॥
| मनःप्रभृतिना त्रिप्रकारेण करणेन । तदेवाह - मनसा, वाचा, कायेनेति । अस्य च करणस्य कर्मोक्तलक्षणो मृषावाद। स्तमपि वस्तुतो निराकार्यतया सूत्रेणैव दर्शयन्नाह न करोमि स्वयं न कारयाम्यन्यैः कुर्वन्तमप्यन्यं न समनुजानामि । तथा तस्य त्रिकालभाविनोऽधिकृतमृषावादस्य संबन्धिनमतीतमवयवं भदन्त प्रतिक्रमामि भूतान्मृषावादान्निवर्त्तेऽहमि त्युक्तं भवति । तस्माच्च निवृत्तिर्यत्तदनुमतेर्विरमणमिति । तथा निन्दामि गर्हामीति अत्रात्मसाक्षिकी निन्दा, परसाक्षिकी गर्हा, आहच - "मणसा मिच्छादुक्कडकरणं भावेण इह पडिकमणं । सचरित्तपच्छयावो निन्दा गरिहा गुरुसमक्खं" सचरित्रस्य स्वप्रत्यक्षमेव पश्चात्तापो निन्देति । किं जुगुप्से इत्याह- आत्मानमतीतमृषावादभाषिणं स्वं तथा व्युत्सृजामि भूतमृषावादं परित्यजामि इह च क्रोधाद्वा भयाद्वेत्यादिना भावतो मृषावादोऽभिहितोऽनेन चैकग्रहणे | तज्जातीयग्रहणमितिन्यायाच्चतुर्विधो मृषावाद उपलक्षित इत्यतस्तदभिधनायाह
से मुसावा चउविपन्नते तंजहा-दबओ खित्तओ कालओ भावओ । दवओ णं मुसावाए सब दवेसु । | खेत्तओ णं मुसावाए लोए वा अलोए वा । कालओ णं मुसावाए दिया वा राओ वा । भावओ णं मुसावाए रागेण वा दोसेण वा ।
सेति स पूर्वाभिहितो, मृषावादश्चतुर्विधः प्रज्ञप्तस्तद्यथा-द्रव्यतो द्रव्यप्राधान्यमाश्रित्य १ क्षेत्रतः क्षेत्रमङ्गीकृत्य २ ६ ॥ १९ ॥ कालतः कालं प्रतीत्य ३ भावतो भावमधिकृत्य ४ द्रव्यतो णमित्यलङ्कारे मृषावाद: सर्वद्रव्येषु, अन्यथाप्ररूपणतो धर्माधर्मादिसमस्तपदार्थेषु |१| क्षेत्र तो णमिति सर्वत्रालङ्कारमात्रे मृषावादः लोके वा लोकविषये अलोके वा अलोकविषये ॥ २ ॥
Jain Education International
वृत्तिः
For Private & Personal Use Only
v.jainelibrary.org