SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ साक्षिकं । इह च ससाक्ष्यं कृतमनुष्ठानमत्यन्तदृढं जायत इति साक्षिणः प्रतिपादिताः। पृथग्जनेऽपि प्रतीतमेवैतद्यदुत ससाक्षिको व्यवहारो निश्चलो भवतीति । एवं च कृते यत्संपद्यते तदाहएवं भवइ भिक्खू वा भिक्खुणी वा सञ्जयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा। __ एवमिति प्रागुक्तप्रत्याख्याने संपन्ने सति किमित्याह-भवति जायते, क इत्याह-भिक्षुर्वेति आरम्भत्यागाद्धर्मकायपरिपालनाय भिक्षणशीलो भिक्षुरेवं भिक्षुक्यपि, पुरुषोत्तमो धर्मइति कृत्वा भिक्षुर्विशेष्यते । तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीत्याह-संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा तत्र सामस्त्येन यतः संयतः सप्तदशप्रकारसंयमोपेतस्तथा विविधमनेकधा द्वादशविधे तपसि रतो विरतस्ततश्च संयतश्चासौ विरतश्च संयतविरतः । तथा प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन विनाशितं प्रत्याख्यातं च हेत्वभावतः पुनर्वृध्यभावेन निराकृतं पापमशुभं कर्म ज्ञानावरणीयादि येन स तथाविधस्ततः पुनः पूर्वपदेन सह कर्मधारयः, दिवा वा दिवसे वा रात्री वा रजन्यां वा एकको वा कारणिकावस्थायामसहायो वा, पर्षद्गतो वा साधुसंहतिमध्यवर्ती वा, सुप्तो वा रात्रिमध्ययामद्वये निद्रागतो वा, जाग्रद्वा निद्रावियुक्तो वेति । सांप्रतं प्राणातिपातविरतिमेव स्तुवन्नाहएस खलु पाणाइवायस्स वेरमणे हिए सुहे खमे निस्ससिए आणुगामिए सवेसिं पाणाणं सवेसिं भू Jain Education in For Private & Personel Use Only Wijainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy