SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूद तद्यथेत्युपदर्शनार्थः अर्हतस्तीर्थकरास्ते साक्षिणः समक्षभाववर्त्तिनो यत्र तत्, शेषाद्वेति (७-३-१७५) कप्रत्ययवि॥१६॥ धानादर्हत्साक्षिकं प्रत्याख्यानक्रियाविशेषणं चैतदेवमन्यत्रापि द्रष्टव्यम् । तथाहीहक्षेत्रवर्तिनोऽन्यक्षेत्रवर्त्तिनो वा तीर्थ-1 कराः केवलवरज्ञानप्रधानचक्षुषा ममेदं प्रत्याख्यानं पश्यन्तीत्यतस्तत्साक्षिकमुच्यते एवं सिद्धा मुक्तिपदप्राप्ताः साक्षिणो दिव्यज्ञानभावेन समक्षभाववर्त्तिनो यत्र तत्सिद्धसाक्षिकं । आहोभयप्रत्यक्षभावे लोके साक्षिकव्यवहारो रूढः नचात्र प्रत्याख्यानकर्तुः सिद्धाः प्रत्यक्षा अतीन्द्रियज्ञानगोचरत्वात्तेषां, तत्कथं ते तस्य साक्षिणः ? उच्यते-श्रुतवासितमतेस्तत्स्वरूपज्ञस्य तस्य ते भावकल्पनया प्रत्यक्षा इवेति कथं न साक्षिण इति । तथा साधवो मुनयस्ते सातिशयज्ञानवन्त इतरे वा विरतिप्रतिपत्तिसमयसमीपवर्तिनः साक्षिणो यत्र तत्साधुसाक्षिकं । तथा देवा भवनपत्यादयस्ते जिनभवनाद्यधिष्ठायिनस्तिर्यग्लोकसञ्चरिष्णवो वा विरतिप्रतिपत्तिक्रमभाविनश्चैत्यवन्दनाद्युपचारात्समीपमुपगताः स्वस्थानस्था वा 3 कथंचिद्वीपसमुद्वान् प्रति प्रयुक्तावधयः साक्षिणो यत्र तद्देवसाक्षिकं । यदाह-चूर्णिकाकारः 'विरइपडिवत्तिकाले चिइ-4 वंदणाइणोवयारेण अवस्समहासंनिहिया देवया सन्निहाणम्मि भवइ अतो देवसक्खियं भणियं । अहवा । भवणवणजोइ (स) वेमाणिया देवा सट्ठाणत्था चेव अहापवत्तोवहिणा दीवं दीवपज्जवेहिं समुई समुद्दपझ्झावेहिं बहवे नारयतिरियम|णुयदेवे य विविहभावसंपउत्ते पेच्छमाणा साहुंपि पाणाइवायविरई पडिवजमाणं पेच्छन्ति, विसेसओ तिरियजम्भगा दियराओ दिसिविदिसासुं चरन्तित्ति ।' तथात्मा स्वजीवः स स्वसंवित्प्रत्यक्षविरतिपरिणामपरिणतः साक्षी यत्र तदात्म SAKXCLASSMALS Jain Education indea For Private & Personel Use Only M ainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy