________________
Jain Education
विधिर्नापि प्रतिषेधो विधावाशंसा दोषप्रसङ्गात् प्रतिषेधे तु सुरादिषु अविरतेषूत्पन्नस्य भङ्गप्रसङ्गात् । किमित्याह - तिस्रो विधा यस्य प्राणातिपातस्येति गम्यते असौ त्रिविधस्तं त्रिविधेन, एतदेव दर्शयति-मनसान्तःकरणेन, वाचा वचनेन, कायेन शरीरेण । अस्य च करणस्य कर्म उक्तलक्षणः प्राणातिपातः, तमपि वस्तुतो निराकार्यतया सूत्रेणैव दर्शयनाह-न करोमि स्वयं, न कारयाम्यन्यैः कुर्वन्तमप्यन्यं न समनुजानामि नानुमन्येऽहमिति अत्राह- किं पुनः कारणमुद्देशक्रममतिलङ्घय व्यत्ययेन निर्देशः कृतः इति । अत्रोच्यते करणायत्ता कृतादिरूपा क्रिया प्रवर्त्तत इति दर्शनार्थं तथाहिकृतादिरूपा क्रिया मनःप्रभृतिकरणवशा एव करणानां भावे क्रियाया अपि भावात् अभावे चाभावात्करणानामेव तथाक्रियारूपेण परिणतेरितिभावः । अपरस्त्वाह- 'न करोमि न कारयामि कुर्वन्तं न समनुजानामी' त्येतावता ग्रन्थेन गतेपि अप्यन्यमित्यतिरिच्यते, तथाचातिरिक्तेन सूत्रेण नार्थ इत्यत्रोच्यते - साभिप्रायकमिदमनुक्तस्याप्यर्थस्य सङ्ग्रहार्थं यस्मात्संभवनार्थीयमपिशब्द उभयपदमध्यस्थ एतदावेदयति-यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यन्यं अनुज्ञापयन्तमप्यन्यं न समनुजानामीति, तथा यथा वर्त्तमानकाले कुर्वन्तमन्यं न समनुजानामि एवमपिशब्दादतीतकाले कृतवन्तमपि अनुज्ञापितवन्तमपि, एवमनागतकालेऽपीति, तथा न क्रियाक्रियावतोर्भेद एवातो न केवला क्रिया संभभवतीतिख्यापनार्थमन्यग्रहणमिति । तथा तस्य त्रिकालभाविनोऽधिकृतप्राणातिपातस्य संबन्धिनमतीतमवयवं नतु वर्त्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणत्वात् भदन्तेतिगुर्वामन्त्रणं प्राग्वत, प्रतिक (का) मामि मिथ्यादुष्कृतं तत्र प्रयच्छामीत्युक्तं भवति तच्च द्रव्यतो भावतश्च संभवति तत्राद्ये कुलालोदाहरणम् – “किर एगया एगस्स कुंभगारस्स
For Private & Personal Use Only
w.jainelibrary.org