________________
पाक्षिकसू० ॥ ९ ॥
Jain Education Int
भेएण पत्तेयं मणाइकयकारियाणुमइसरूवेण, सम्मं च परिक्खिऊण उवडाविज्जइ नण्णहा, इमे य इत्थं दिता । मइलो पडो न रङ्गिज्जइ, सोधिओ चेव रङ्गिज्जइ । असोहिए मूलपाए पासाओ न कीरइ, सोहिए चेव कीरइ । चमणाई हिं असोहिए आउरे ओसहं न दिज्जइ, सोहिए चेव दिज्जइ । आइसद्दाओ असंठविए रयणो (ण) पडिबंधो न किज्जइ संठविए चेव किजइ । एवं पढियकहियाईहिं असोहिए सीसे न वयावरोवणं किज्जइ, सोहिए चेव किज्जई । असोहिए य करणे गुरुणो दोसो सोहियापालणे सीसस्स दोसोत्ति” कृतं प्रसङ्गेन प्रकृतमुच्यते । तत्र यदुक्तं सर्वे भदन्त प्राणातिपातं प्रत्याख्यामि तदेतद्विशेषतोऽभिधित्सुराह से सुहमं वेत्यादि । सेशब्दो मागधदेशीप्रसिद्धोः अथशब्दार्थः स चोपन्यासे तद्यथा सूक्ष्मं वा बादरं वा त्रसं वा स्थावरं वा । अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः तस्य कायेन व्यापादनासंभवात, बादरोऽपि स्थूलो वाशब्दौ परस्परापेक्षया समुच्चये, स चैकैको द्विधा त्रसः स्थावरश्च तत्र सूक्ष्मस्त्रसः कुन्ध्वादिः स्थावरो वनस्पत्यादिः, बादरस्तु त्रसो गवादिः स्थावरः पृथिव्यादिः । अत्रापि वाशब्दौ समुच्चये । एतान् पूर्वोक्तान् नैव स्वयमात्मना प्राणिनो जीवान् अइवाएजत्ति विभक्तिव्यत्ययादतिपातयामि विनाशयामि मारयामीतियावत्, नैवान्यैरात्मव्यतिरिक्त जनैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान् परान्न समनुजानाम्यनुमोदयामि कथमित्याह - जावज्जीवाए इत्यादि । जावज्जीवापत्ति प्राकृतत्वाज्जीवनं जीवः प्राणधारणं यावज्जीवो यावज्जीवं यावदियत्त्वे ( सि ३-१ - ३१ ) इत्यनेनाव्ययीभावसमासस्ततश्च यावज्जीवं प्राणधारणं यावत् । अथवा अलाक्षणिकवर्णलोपाद्यावज्जीवं भावो यावज्जीवता तया यावज्जीवतया आ प्राणोपरमादित्यर्थः । परतस्तु-न
For Private & Personal Use Only
वृत्तिः
॥ ९॥
ainelibrary.org