SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विधेयः,तत्र भदन्तः कल्याणः सुखश्चोच्यते तद्रूपत्वात्तद्वेतुत्वाद्वति, तथा भवस्य संसारस्यान्तो विनाशस्तेनाचार्येण समाश्रितसत्त्वानां क्रियत इति भवान्तकरत्वात् भवान्तः, तथा भयमिहपरलोकादानाकस्मादश्लोकाजीविकामरणभेदासप्तधा वक्ष्यमाणलक्षणमेतस्य सप्तविधभयस्य यमाचार्य प्राप्यान्तो भवति स भयान्त इति । एतच्च गुामन्त्रणं गुरुसाक्षिकैव व्रतप्रतिपत्तिः साध्वीतिज्ञापनार्थं सर्वशुभानुष्ठानगुरुतन्त्रताप्रतिपादनार्थ चेति । महच्च तद्वतं च तस्मिन्महाव्रते, महत्त्वं चास्य श्रावक सम्बन्ध्यणुव्रतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गशताधिकारस्तच्चोपरिष्टाद्वक्ष्यामः। प्राणा इन्द्रियादयस्तेषामतिपातो विनाशः प्राणातिपातो जीवस्य महादुःखोत्पादनं नतु जीवातिपात एव तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्त्तनम् । भगवतोक्तमितिशेषः । यतश्चैवमत उपादेयमेतदिति विनि-15 श्चित्य सर्व निरवशेषं न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणं, प्रतिपदमनुवृत्तिज्ञापनार्थ च पुनरस्योपन्यासः, प्राणातिपातं जीवितविनाशं प्रत्याख्यामि परिवर्जयामीत्यर्थः, अथवा प्रत्याचक्षे संवृतात्मा साम्प्रतमनागतप्रतिषेधस्यादरेणाभि|धानं करोमीत्यर्थः । अनेन व्रतार्थपरिज्ञानादिगुणयुक्तो व्रताह इत्यावेदयति उक्तं च “पढिए कहिय अहिगय परिहर उवठ्ठावणाए कप्पोत्ति । छक्कं तिहिं विसुद्धं परिहर नवएण भेएण ॥१॥पडपासाउरमाई, दिहता हुंति वयसमारुहणे । जह मलिणाइसु दोसा सुद्धाइसु नेयनिहई पि ॥२॥ एयासिं लेसओ विवरणं-पढियाए सत्थ । (३००) परिनाए छज्जीवणियाए वा, तीए चेव कहियाए गुरूणा वक्खायाए, अहिंगयाए अत्थओ परिन्नायाए, सम्मं परिहरन्तो उवद्वावणाए कप्पो जोग्गो, परिहारमेव वक्खाणेइ-छक्कन्ति छज्जीवनिकाए, तिहिं मणवयकाएहिं, विसुद्धं परिहरइ नवएण Jain Education in For Private & Personel Use Only Brainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy