SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० सहगतभेदाद्वा, क्षेत्रतस्त्रैलोक्यसंभवात् ,कालतोऽतीतादे राज्यादिसमुत्थाद्वा, भावतो रागद्वेषप्रभवात् , मिथुनं स्त्रीपुं वृत्तिः सद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरमणमिति॥४॥ तथा सर्वस्मात्कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् , क्षेत्रतो लोकसंभ॥८॥ वात् , कालतोऽतीतादे राज्यादिप्रभवाद्वा, भावतो रागद्वेषविषयात् परिगृह्यते आदीयते परिग्रहणं वा परिग्रहस्तस्माद्विरमणमिति ॥४॥ तथा सर्वस्मात्कृतादिरूपादिवा गृहीतं दिवा भुक्तम् १ दिवा गृहीतं रात्रौ भुक्तम् २ रात्रौ गृहीतं दिवा भुक्तम् ३ रात्रौ गृहीतं रात्रौ भुक्तमिति ४ चतुर्भङ्गरूपाच्चेत्यर्थः । अथवा द्रव्यतश्चतुर्विधाहारविषयात् , क्षेत्रतः समयक्षे गोचरात्कालतो राज्यादिसंभवात् भावतो रागद्वेषप्रभवात् रात्रिभोजनात् रजनीजेमनाद्विरमणमिति ॥ एवं सामान्येन ४ व्रतपटमभिहितमथ विशेषतस्तत्स्वरूपनिरूपणार्थमाह तत्थ खलु पढमे भन्ते महत्वए पाणाइवायाओ वेरमणं, सर्व भन्ते पाणाइवायं पञ्चक्खामि, से सुहमं | वा वायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाएज्जा, नेवन्नेहिं पाणे अइवायाविज्जा, पाणे अ-16 इवायंते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥ | तत्र तेषु षट्सु व्रतेषु मध्ये, खलुशब्दादन्येषु च मध्यमतीर्थकरप्रणीतेषु चतुर्यामेषु वाक्यालङ्कारार्थो वा खलुशब्दः, प्रथमे सूत्रक्रमप्रामाण्यादाद्ये, भन्तेत्ति गुरोरामन्त्रणं अस्य च साधारणश्रुतित्वाद्भदन्त भवान्त भयान्त इति वा संस्कारो USAS OXIGA SASA Jain Education EUR For Private & Personel Use Only ainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy