SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ऽवसेयोऽन्यैरपि तीर्थकरगणधरैः प्ररूपितेति । यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी प्रज्ञप्तेति प्राह-तदा तीर्थकरगणधरैरेव देशितेत्ययमों द्रष्टव्यः । किंविशिष्टा सा इत्याह-रात्रिभोजनविरमणं निशिजेमनवर्जनं षष्ठं यस्यां सा रात्रिभोजनविरमणषष्ठा । अथ रात्रिभोजनविरमणपष्ठं पञ्चविधत्वमुपदर्शयन्नाह तंजहा-सबाओ पाणाइवायाओ वेरमणं ।१ सवाओ मुसावयाओ वेरमणं । २सबाओ अदिन्नादाणाओ तिवेरमणांसबाओ मेहणाओ वेरमणांसवाओ परिग्गहाओवेरमणा५सबाओ राइभोयणाओवेरमणं ॥६॥ | तद्यथेत्युपदर्शनार्थः, सर्वस्मान्निरवशेषासस्थावरसूक्ष्मवादरभेदभिन्नात्कृतकारितानुमतिभेदाच्चेत्यर्थः, अथवा द्रव्यतः षड्जीवनिकायविषयात् , क्षेत्रतस्त्रिलोकसम्भवात् ,कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतोरागद्वेषसमुत्थात् प्राणाना-1 मिन्द्रियोच्छासायुरादीनामतिपातः प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः, तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्त्तनमिति ॥१॥ तथा सर्वस्मात्सद्भावप्रतिषेधा १ ऽसद्भावोद्भावना २ र्थान्तरोक्ति ३ गर्दा ४ भेदात्कृतादिभेदाच्च, अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् , क्षेत्रतः सर्वलोकालोकगोचरात् ,कालतो|ऽतीतादे राज्यादिवर्तिनो वा, भावतः कषायनोकषायादिप्रभवात् मृषाऽलीकं वदनं वादो मृषावादस्तस्माद्विरमणं विरतिरिति ॥२॥ तथा सर्वस्मात्कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् । क्षेत्रतो ग्रामनगरारण्यादिसम्भवात् , कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषमोहसमुत्थात् , अदत्तं स्वामिनाऽवितीर्ण तस्याऽऽदानं ग्रहणमदत्तादानं तस्माद्विरमणमिति ॥३॥ तथा सर्वस्मात्कृतकारितानुमतिभेदात् अथवा द्रव्यतो दिव्यमानुषतैरश्चभेदात् , रूपरूप Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy