SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ SERIALAS पाक्षिकसूरीक्षणं न्याय्यं, मा भूदयोग्यप्रदाने तत्सम्यग्नियोगाक्षमार्थिजनाऽनर्थ इति, न खलु तत्त्वतोऽनुचितप्रदानेन दुःखहेतुनाट वृत्तिः विवेकिनमर्थिजनमनुयोजयन्तोऽप्यनवगतपरार्थसंपादनोपायाः पुरुषा भवन्ति दयालव इत्यवधूय मिथ्याभिमानमालोच्यतामेतदिति । आह-क इवायोग्यप्रदाने दोष इति ! उच्यते स ह्यचिन्त्यचिन्तामणिकल्पमनेकभवशतसहस्रोपात्तानिष्टदुष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासेवते, लाघवं चास्यासावापादयति, ततो विधिसमासेवक इव कल्याणं अविधिसमासेवको महदकल्याणमासादयतीत्युक्तं च “ आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धन्तरहस्सं अप्पाहारं विणासेइ ॥१॥” ततोऽयोग्यश्रुतप्रदाने दातृकृतमेव वस्तुतस्तस्य तदकल्याणमित्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्र सेशब्दो मागधदेशीप्रसिद्धो निपातोऽथशब्दार्थे द्रष्टव्यः सच वाक्योपन्यासार्थः । किमिति परप्रश्ने ततश्चायं वाक्यार्थः । अथ किं तद्वस्तु महाव्रतोच्चारणा प्राकृतशैल्याभिधेयवल्लिङ्गवचनानि भवन्तीति न्यायादेवं द्रष्टव्यं अथ का सा महाव्रतोच्चारणेति । एवं सामान्येन केनचिनने कृते सति भगवान्गुरुः शिष्यवचनानुरोधेनादरार्थ किञ्चिच्छिष्योक्तं प्रत्युच्चार्याह-महाव्रतोच्चारणाऽभिहितस्वरूपा पञ्चविधा पञ्चप्रकारैव प्रज्ञप्ता प्ररूपिता न चतुर्विधा प्रथमपश्चिमतीर्थकरतीर्थयोः पञ्चानामेव महाव्रतानां ४ भावात् । यदाह-"पञ्च जमा पढमन्तिमजिणाण सेसाण चत्तारित्ति" । अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणे-18॥७॥ तदाह-न सर्वमेव सूत्रं गणधरप्रश्नतीर्थकरनिर्वचनरूपं, किं तर्हि ? किञ्चिदेव, बाहुल्येन तु तद्ब्धमेव । तथा चोक्तं “अत्थं भासइ अरहा सुत्तं गंथंति गणहरा णिउणं ति" ततश्च यदा तीर्थकरगणधरा एव प्रज्ञप्तेत्येवमाहुस्तदायमों ARCHILOSALAMAULOCALKAROSAROK Jain Education inade For Private Personal Use Only M inatibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy