________________
थंभूतां! उदारां विशिष्टकर्मक्षयकारणत्वात्प्रधानां अत एव चादावियमेव प्रतिज्ञाता, अन्यथा श्रुतकीत्तर्नादेरप्यत्र करिप्यमाणत्वात् , अहमपि न केवलमन्ये साधव इत्यपिशब्दार्थः, उपस्थितः प्रवीभूतोऽभ्युद्यत इतियावत्, तां पूर्वोक्तविशेपणविशिष्टां महान्ति बृहन्ति तानि च तानि व्रतानि च नियमा महाव्रतानि, महत्त्वं चैतेषां सर्वजीवादिविषयेन महाविषयत्वात् । उक्तं च "पढमंमि सबजीवा, बीए चरिमे य सबदबाई । सेसा महबया खलु, तदेक्कदेसेण दवाणं॥१॥ति" तदेकदेसेणंति तेषां द्रव्याणामेकदेशेनेत्यर्थः। तथा यावज्जीवं त्रिविधं त्रिविधेनेतिप्रत्याख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतो वा गुणिनो ब्रतानि महाव्रतानीति । तेषामुच्चारणा समुत्कीर्तना महाव्रतोच्चारणा महतोच्चारणा वा तां कर्तुं विधातुमिति ॥ तत्रेदमादिसूत्रं| से किं तं महत्वयउच्चारणा ? महत्वयउच्चारणा पञ्चविहा पन्नता राईभोयणवेरमणछट्ठा ॥५॥
__“अथास्य सूत्रस्य कः प्रस्ताव इत्युच्यते प्रश्नसूत्रमिदं, एतत्त्वादावुपन्यस्यन्निदं ज्ञापयति, पृच्छतो मध्यस्थस्य बुद्धिमतोहार्थिनो विनेयस्य भगवदर्हदुपदिष्टतत्त्वप्ररूपणा कार्या नान्यस्य तथाचोक्तं "मध्यस्थो बुद्धिमानर्थी श्रोता पात्रमिति | | स्मृत" इति । पात्रं योग्योऽहाऽधिकारी चोच्यते तस्मा इदमप्यध्ययनं देयमिति । आह-शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वत्रसत्त्वहिताय चोद्यतानां महापुरुषाणां किं योग्यायोग्यविभागनिरीक्षणेन, नहि परहितार्थमिह महादानोद्यता महीयांसोऽर्थिगुणमपेक्ष्य दानक्रियायां प्रवर्त्तन्ते दयालव इति, अत्रोच्यते-ननु यत एव शुभाध्ययनप्रदानाधिकारः (रे) समभावव्यवस्थिताः सर्वसत्त्वहितोद्यताः महापुरुषाश्च गुरवोऽत एव योग्यायोग्यविभागनि
SUSISIRAAMATUSRAHA***
प. Jain Edu
२
For Private & Personel Use Only
(odjainelibrary.org