________________
पाक्षिकसू० हं तुब्भण्हं तवतेयसिरीए इमाउ चाउरन्तसंसारकन्ताराओ साहदु नित्थरिस्सामित्तिकट्ठ सिरसा 8| वृतिः
मणसा मत्थएणवन्दामि इच्छामि अभिलपामि, अहमपूर्वाण्यनागतकालीनानि, कृतिकर्माणीतियोगः, कर्तुमिति वाक्यशेषः “खमासमणोत्ति” व्यक्त तथा कृतानि पूर्वकाले, चःसमुच्चये "मेत्ति" मया कृतिकर्माणि वैयावृत्त्यविशेषा भवतामिति गम्यते, तेषु च "आयारमन्तरेत्ति" आचारान्तरे क्वचिज्ज्ञानाद्याचारविशेषे विषयभूते आचारव्यवधाने वा सति, ज्ञानादिक्रियाया अकरणे सति इति भावः, तथा"विणयमंतरेत्ति" विनयान्तरे आसनदानादिविनयविशेषे विषयविभूते विनयविच्छेदे वा तदकरणे इत्यर्थः, 'सेहिओत्ति' शिक्षितः स्वयमेव गुरुभिः शिक्षा ग्राहित इत्यर्थः, सेधितो निष्पादित आचारविशेषविनयविशेषेषु कुशलीकृत इत्यर्थः, "सेहाविओत्ति" शिक्षापितः सेधापितो वा उपाध्यायादिप्रयोजनतः तथा "सङ्गहिओत्ति" सगृहीतः शिष्यत्वेनाश्रितः,
तथा "उवग्गहिओत्ति' उपगृहीतः ज्ञानादिभिः वस्त्रादिभिश्चोपष्टम्भितः तथा “सारिओत्ति" सारितो हिते प्रवर्तितः, कृत्य दवा स्मारितः “वारिओत्ति” अहितान्निवारितः "चोइओत्ति” संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवादृशां विधातुमित्यादि
७५ ॥ वचनेन प्रेरितः " पडिचोइओत्ति" तथैव पुनः पुनः प्रेरित एव “चियत्ता मे पडिचोयणत्ति” चियत्ता प्रीतिविषया नत्वहङ्कारादप्रीतेति मे मम प्रतिप्रेरणा भवद्भिः क्रियमाणेति, उपलक्षणं चैतच्छिक्षादेरिति, ततश्च “उवडिओहन्ति" उपस्थितोऽहमस्मि प्रतिप्रेरितार्थसंपादनविषये कृतोद्यम इत्यर्थः । तथा "तुब्भण्हं तवतेयसिरीए” युष्माकं तपस्तेजःश्रिया भवदी
Jain Education in
a
l
For Private & Personel Use Only
K
ainelibrary.org