________________
Jain Education li
यया तपःप्रभावसंपदा हेतुभूतया "इमाउत्ति" इतः प्रत्यक्षात् “ चाउरन्तसंसारकन्ताराउत्ति " चतुरन्तं चतुर्विभागं नरकत्वादिभेदेन तदेव चातुरन्तं तत्संसारकान्तारं च भवारण्यमिति समासस्तस्मात् “साहहुत्ति" संहृत्य कषायेन्द्रिययोगादिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थः “नित्थरिस्तामित्ति” लङ्घयिष्यामि “इतिकट्टु" इतिकृत्वा इतिहेतोः “सिरसा मणसा मत्थपण वन्दामित्ति" प्राग्वत्, इह भगवन्तमिति वाक्यशेषः, इहाचार्यवचनम् -
faceारगपारगा होह
निस्तारकाः संसारसमुद्रात्प्राणिनां प्रतिज्ञाया वा (श्च) पारगाः संसारसमुद्रतीरगामिनो भवत यूयमित्याशीर्वचनमिति ॥ पच्छा देवसियं पडिक्कमन्ति, तत्थ खामणानिमित्तं किइकम्मं करित्ता भणन्ति-इच्छामि खमासमणो अब्भुडिओमि अग्भिन्तरदेवसियं खामेडं, जं किंचि अपत्तियमित्यादि, पच्छा साहुदुर्गं खामन्ति, तओ आयरियस्स य अल्लियावणनिमित्तं किइकम्मं करन्ति, तओ दुरालोइयं वा होज्जा दुप्पडिक्कन्तं वा हुज्जा अणाभोगाइणा कारणेण, अओ पुणोवि कयसामाइ - आइसुत्तुश्चारणा चरित्तविसोहणत्थमेव पञ्चासुस्सासपरिमाणं काउस्सग्गं करन्ति, तओ नमोक्कारेण पारिता विसुद्धचरित्ता विसुद्धचरित्तदेसयाणं दंसणविसुद्धिनिमित्तं नामुक्कित्तणं करन्ति लोगस्सुज्जोयगरे इत्यादि, तओ दंसणविसुद्धिनिमित्तं पणुवीसूसासपरिमाणं काउस्सग्गं करेन्ति, तओ नमोक्कारेण पारित्ता नाणविसुद्धिनिमित्तं सुयनाणत्थयं पढन्ति पुक्खरवरदीवडे इत्यादि, तओ सुयनाणविसुद्धिनिमित्तं पणुवीसूसासपरिमाणं काउसग्गं करन्ति, तओ नमोक्कारेण पारित्ता सिद्धत्थयं पढन्ति सिद्धाणं बुद्धाणमित्यादि, तओ सेज्जादेवयाए काउस्सग्गं करन्ति, तत्थ य सत्तावीसूसा से पूरन्ति इत्यावश्यकचूर्णिः । आयरण
For Private & Personal Use Only
jainelibrary.org