________________
पपातः, सोऽस्ति यैषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्धादिविमानपञ्चकोपपातिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा दशा
ध्ययनोपलक्षिता अनुत्तरोपपातिकदशा इति “पण्हावागरणन्ति" प्रश्नाश्च पृच्छा व्याकरणानि च निर्वचनानि समाहारहत्वात्प्रश्नव्याकरणं, तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणमिति “विवागसुयन्ति" विपचनं विपाकः शुभाशुभकर्मपरि-18
णाम इत्यर्थः, तत्प्रतिपादकं श्रुतं विपाकश्रुतं "दिहिवाओत्ति" दृष्टयो दर्शनानि, वदनं वादः, दृष्टीनां वादो दृष्टिवादः, |दृष्टीनां वा पातो यत्रासौ दृष्टिपातः, सर्वनयदृष्टयो यत्राख्यायन्ते समवतरन्ति चेति भावः । इत्युत्कीर्तितं सामान्यतो|ऽङ्गप्रविष्ट श्रुतं । सांप्रतं श्रुतदातृपालकेभ्यो नमस्कारम् आत्मीयप्रमादविषये मिथ्यादुष्कृतं चाह| नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवन्तं, सम्मं कारण फासन्ति पालन्ति पूरन्ति तीरन्ति किट्टन्ति सम्म आणाए आराहन्ति, अहं च नाराहमि तस्स मिच्छामि दुक्कडं ॥ _ नमो नमस्कारोऽस्तु, तेभ्यः क्षमाश्रमणेभ्यः क्षमादिगुणगणप्रधानमहामुनिभ्यः स्वगुरुभ्यः तीर्थकरगणधरादिभ्यो वेति भावः, यैरिदं प्रागुक्तं वाचितं प्रदत्तं परिभाषितं वा सूत्रार्थतः प्रणीतमित्यर्थः, द्वादशाङ्गं द्वादशानामङ्गानां समाहारो द्वादशाङ्गं, किंविशिष्टमित्याह "गणिपिडगन्ति" गुणगणः साधुगणो वास्यास्तीति गणी आचार्यस्तस्य पिटकमिव रत्नादिकरण्डक इव पिटकं गणिपिटकं सर्वार्थसारकोशभूतमित्यर्थः, पुनरपि किंविशिष्टं "भयवन्तंति" भगः समग्रैश्वर्यादि-| लक्षणः यदुक्तं "ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य पण्णां भग इतीङ्गना" इङ्गना नाम, सा
CHARACTECARROCCORDCRACC ORRC
Jain Education
For Private & Personel Use Only
Vorajainelibrary.org