SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूद आलोएमो पडिकमामो निन्दामो गरहामो विउद्देमो विसोहेमो अकरणयाए अब्भुढेमो अहारिहं | वृत्तिः तवोकमं पायच्छित्तं पडिवज्जामो तस्स मिच्छामि दुक्कडं ॥ | एतच्च प्राग्वव्याख्येयं, नवरं गणिपिटकम् आचार्यस्यार्थसारप्रधानभाजनमित्यर्थः “आयारोत्ति” आचरणमाचारः आचर्यत इति वाचारः शिष्टाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते । “सूयगडोत्ति" 'सूच सूचायां' सूचनात्सूत्रं सूत्रेण कृतं सूत्रकृतं स्वपरसमयादिसकलपदार्थसूचक यदित्यर्थः "ठाणन्ति” तिष्ठन्त्यासते वसन्ति यथावदभिधेयतयैकत्वादिविशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम्, अथवा स्थानशब्दनेहकादिकः सङ्ख्याभेदोऽभिधीयते ततश्चात्माद्यर्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानमाचाराभिधायकत्वादाचारवदिति “समवाओत्ति” समिति सम्यक्, अवेत्यधिकः, अयः जीवादिपरिच्छेदः समवायः, तद्धेतुश्च ग्रन्थोऽपि समवाय इति "विवाहपणत्तित्ति" विशिष्टा वाहा अर्थप्रवाहास्तत्त्वार्थविचारपद्धतय इत्यर्थः, तेषां प्रज्ञप्तिः प्रज्ञापनं व्याख्यानं यस्यां सा विवाहप्रज्ञप्तिः, पूज्यत्वेन नामान्तरतो भगवतीत्यपीयमुच्यते "नायाधम्मकहाओत्ति" ज्ञातान्युदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा "उवासगदसाओत्ति" उपासकाः श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशाध्ययनोपलक्षिता उपासकदशाः “अन्तगडदसाओत्ति" अन्तो विनाशः, स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्ते अन्तकृतास्ते च ॥ ७० ॥ तीर्थकरादयस्तेषां दशाः प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षिता अन्तकृतदशा इति “अणुत्तरोववाइयदसाओत्ति” उत्तरः प्रधानो नास्योत्तरो विद्यत इत्यनुत्तरः, उपपतनमुपपातो जन्मेत्यर्थः, अनुत्तरश्चासावुपपातश्चेत्यनुत्तरो Jain Education For Private Personel Use Only a djainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy