SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० ॥ ५९ ॥ Jain Education In तद्यथा - अङ्गप्रविष्टं अङ्गत्राह्यं च तत्र " पायदुगं २ जङ्घो ४ रू ६ गायदुगद्धं तु ८ दो य बाहू य १० । गीवा ११ सिरं च १२ पुरिसो बारस अङ्गो सुयविसिट्ठो” गात्रद्विकार्द्ध पृष्ठोदरलक्षणं, एवंविधश्रुतपुरुषस्याङ्गेषु प्रविष्टं व्यवस्थितं अङ्गप्रविष्टं तथाहि प्रवचन पुरुषस्य पादयुगमाचारसूत्रकृते, जङ्घाद्विकं स्थानसमवायावित्यादि । अथवा “गणधरकयमङ्गगयं जं कय थेरेहि बाहिरं तं तु । निययं वङ्गपविडं अणिययस्य बाहिरं भणियं " श्रुतपुरुषाङ्गव्यतिरिक्तमङ्गबाह्यं तदपि द्विविधं प्रज्ञप्तं आवश्यकं च आवश्यकव्यतिरिक्तं च तत्र तावदल्पवक्तव्यत्वादावश्यक श्रुतसमुत्कीर्त्तनाय तदुपदेशक नमस्कारपूर्वकं सूत्रमाह नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छविहमावस्सयं भगवन्तं ॥ नमो नमस्कारोऽस्त्विति गम्यते, केभ्यः ! इत्याह-तेभ्यः क्षमाश्रमणेभ्यः क्षमादिगुणप्रधानमहातपस्विभ्यः स्वगुरुभ्यस्तीर्थ करगणधरादिभ्यो वेति भावः, यैरिदं वक्ष्यमाणं वाचितं अस्मभ्यं प्रदत्तं, अथवा वाचितं परिभाषितं सूत्रार्थतया विरचितमित्यर्थः । षड्विधं षट्कारमवश्यकरणादावश्यकं, गुणानां वाऽभिविधिना वश्यमात्मानं करोतीत्यावश्यकं, किंविशिष्टं भगवत् सातिशयाभिधेयसमृद्ध्यादिगुणयुक्तं, षड्विधत्वमेवोपदर्शयन्नाह छवि तं जहा - सामाइयं चउवीसत्थओ वंदणयं पडिकमणं काउस्सग्गो पञ्चक्खाणं, सवे हिं पि एवं मि आवस्सए भगवंते ससुत्तेसअत्थे सगंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा For Private & Personal Use Only वृत्तिः jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy