SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education जागर्ति कालो हि दुरतिक्रमः" अत्रोत्तरं - कालोऽस्ति तमन्तरेण बकुलचम्पकादीनां नियतपुष्पादिप्रदानाभावप्रसङ्गात्, नच तत्परिणतिर्विश्वं एकान्तनित्यस्य परिणामानुपपत्तेरिति १६ श्रुतस्य त्वाशातना " को आउरस्स कालो मइलंवरधोवणे व को कालो । जइ मोक्खहेउ नाणं को कालो तस्सकालो वा " इत्यादिका इह चोत्तरं "जोगोजोगो जिणसासम्मि दुक्खक्खया पउजंन्तो । अन्नोन्नमवाहाए असत्तो होइ कायबो |१| पूर्वे धर्म्मद्वारेण श्रुतस्य आशातनोक्ता इह तु स्वतन्त्रश्रुतविषयेति न पौनरुक्त्यं १७ श्रुतदेवतायास्त्वाशातना न विद्यते श्रुतदेवता अकिञ्चित्करी वा, अत्रोत्तरंअस्त्येव श्रुतदेवता यतो नानधिष्ठितो मौनीन्द्रः खल्वागमो, नचाकिञ्चित्करी तामालम्ब्य प्रशस्तमनसः सत्त्वस्य कर्मक्षयदर्शनात् १८ तथा वाचनाचार्यो य उपाध्यायसन्दिष्ट उद्देशादि करोति तस्य चाशातनेयं - निर्दुःखसुखः प्रभूतान् वारान् वन्दनं दापयति, उत्तरं तु श्रुतोपचार एष क इव तस्यात्र दोष इति १९ इतो व्याविद्धाक्षरादिपदानि चतु दशापि श्रुतक्रियाकालगोचरत्वान्न पौनरुक्तत्यभाञ्जीति । तत्र व्याविद्धाक्षरं विपर्यस्ताक्षरम् २० व्यत्याम्रेडितं अन्योन्यासंबद्धवर्णव्यामिश्रं २१ हीनाक्षरं अक्षरन्यूनम् २२ अत्यक्षरम् अधिकाक्षरं २३ पदहीनं पदेनैवोनं २४ विनयहीनं अकृतोचितविनयं २५ घोषहीनं उदात्तादिघोषरहितं २६ योगहीनं सम्यगकृतयोगोपचारम् २७ सुष्ठु दत्तं समधिकं प्रदत्तं गुरुणा २८ दुष्ठु प्रतीच्छितं कलुषितान्तरात्मना शिष्येण गृहीतम् २९ अकाले कृतः स्वाध्यायः यो यस्य श्रुतस्य कालिकादेरकालस्तत्राधीतमिति ३० काले न कृतः स्वाध्यायो यस्यात्मीयोऽध्ययनकाल उक्तस्तत्र स्वाध्यायो न विहित इति | ३१ अस्वाध्यायिके स्वाध्यायितं अस्वाध्यायिकं रुधिरमहिकापांसुपातगन्धर्बनगरसंग्रामादिकं तत्र स्वाध्यायितमधीत For Private & Personal Use Only ainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy