SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० ति: ॥४८॥ नवबंभयारिस्स खमो निवासो।। बंभवयस्स अगुत्ती लज्जानासो य पीइवुड्डी य । साहु तवो वणवासो निवारणं तित्थहाणी य । २। चङ्कमियं मोट्टियं च विप्पिक्खियं च सविलासं । सिङ्गारे य बहुविहे दह भुत्तेयरे दोसा ।३। गीयाणि य पढियाणि य हसियाणि य मंजुले य उल्लावे । भूसणसद्दे राहस्सिए य सोऊण जे दोसा । ४ । पसुपण्डगेसुवि | इहं मोहानलदीवियाणं जं होइ । पायमसुहा पवित्ती पुषभवब्भासओ तय । ५।" तथा कहत्ति न स्त्रीणां केवलानामेकाकिनीनां धम्मदेशनादिलक्षणवाक्यप्रबन्धरूपा कथा कथनीया, अथवा जातिकुलरूपनेपथ्यलक्षणा स्त्रीकथा न कथनीया, तत्र ब्राह्मणीप्रभृतीनामन्यतमायाः प्रशंसा निन्दा वा या सा जातिकथा, यथा-धिग्ब्राह्मणीवाभावे या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः पतिलक्षेप्यनिन्दिताः ॥१॥ इति । एवं चोग्रादिकुलोत्पन्नानामन्यतमाया यत्प्रशंसादि सा कुलकथा-अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । पत्युर्मृत्यौ विशन्त्यग्नौ याः प्रेमरहिता अपीति ॥१॥ तथान्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत् प्रशंसादि सा रूपकथा यथा-चन्द्रवका सरोजाक्षी सद्गीः पीनघनस्तनी । किं लाटी नो मता सास्य देवानामपि दुर्लभेति । १। तासामेवान्यतमायाः कच्छबन्धादिनेपथ्यस्य यत्प्रशंसादि सा नेपथ्यकथा| यथा-धिग्नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदेति । १। स्त्रीकथायां चैते दोषाः “ आयपरमोहुदीरणउड्डाहो सुत्तमाइपरिहाणी । बंभवए य अगुत्ती पसङ्गदोसो य गमणाई ” । तथा निसिजत्ति निषद्या, कोऽर्थः! स्त्रीभिः सहैकासने नोपविशेदुत्थितासु मुहूर्त नोपविशेत्तदुपभुक्तासनस्य चित्तविकारहेतुत्वा-1 | द्यदाह " इत्थीए मलियसयणासणम्मि तप्फासदोसओ जइणो । दूसेइ मणं मयणो कुई जह फासदोसेणं"। तथा ॥४८ ॥ Jain Education A rone For Private Personel Use Only jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy