SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० ॥ ४७ ॥ Jain Education In | मत्थि ताहं दरिद्दकुले उववज्जामि, एवं मे अप्पा सुनीहरए भविस्सइ, एवं कयनियाणो देवेसु उववज्जित्ता दरिद्दकुलोववन्नो धम्मं सोच्चा जाव पचयइ नो सिज्झइ । ९ । एवं नच्चा अनियाणेण भवियवं ति” तथा संसरन्ति कर्म्मवशवर्त्तिनः पाणिनः परिभ्रमन्ति यस्मिन्निति संसारस्तत्र तिष्ठन्तीति संसारस्थाश्चः समुच्चये, नवविधाः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियभेदान्नवसंख्या:, क इत्याह-जीवाः प्राणिनस्तान् परिवर्जयन्नित्यादि पूर्ववदिति । चूर्णौ तु “नवविहदंसणवरणं नव य नियाणाई नवविहा जीवा " इत्यादिपाठव्याख्या दृश्यते, तत्र नवविधं नवभेदं, किं तदित्याह - सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनं तस्यावरणस्वभावं कर्म्म दर्शनावरणं तन्नवविधं तत्र निद्रापवकं तावत् द्रा कुत्सायां गतौ नियतं द्राति कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था, नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति, तद्विपाकवेद्या कर्म्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वान्मध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था तस्यां ह्यस्फुटतरीभूत चैतन्यत्वाद्दुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षयास्या अतिशायिनीत्वं, तद्विपाकवेद्या कर्म्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते । उपविष्ट ऊर्द्धस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला, सा ह्युपविष्टस्योर्द्धस्थितस्य वा घूर्णमानस्य स्वप्तुर्भवति, तथाविधविपाकवेद्या कर्म्मप्रकृतिरपि प्रचलेति, तथैव प्रचलातिशायिनी प्रचलाप्रचलाप्रचला, सा हि चङ्क्रमणादि कुर्वतः स्वतुर्भवत्यतः स्थानस्थितस्वप्नभवां प्रचलामपेक्ष्यातिशायिनी, तद्विपाका कर्म्मप्रकृतिरपि प्रचलाप्रचला । स्त्याना बहुत्वेन सङ्घातमापन्ना गृद्धिरभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनं For Private & Personal Use Only वृत्तिः 11 80 11 jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy