________________
वृत्तिः
पाक्षिकसूद अभिग्रहा अवग्रहप्रतिमाः तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा तद्-
हतः प्रथमा १ तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति तद्यथा अहं च खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि॥४३॥1
अन्येषां चावगृहे गृहीते सति वत्स्यामीति द्वितीया २। प्रथमा सामान्येन इयं तु गच्छान्तर्गतानां सांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योन्यार्थ याचन्त इति । तृतीया त्वियं अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीते तु न स्थास्यामीति एषा त्वहालंदि(तु यथालन्दि)कानां यतस्ते सूत्रावशेषमाचार्यादभिकासन्त आचार्यार्थ तं याचन्त इति ३१चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीतीयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वताम् ४ । पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति । इयं तु जिनकल्पि-टू कस्येति ५। पष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादिसंस्तारक ग्रहीष्यामि इतरथोत्कटुको वा उपविष्टो वा रजनी गमिष्यामीत्येषापि जिनकल्पिकादेरिति ६। सप्तमी एषैव पूर्वोक्ता नवरं यथास्तृतमेव शिलादिकं गृहीष्यामि नेतरदिति । ७ । तथा सत्तिकयत्ति सप्त सप्तककाः अनुदेशकतयैकसरत्वेनैकका अध्ययनविशेषा आचाराङ्गस्य | द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः सप्तेति कृत्वा सप्तकका अभिधीयन्ते, तेषामेकोऽपि सप्तकक इति व्यपदिश्यते तथैव नामत्वात् , एवं च ते सप्तेति, तत्र प्रथमः स्थानसप्तकको, द्वितीयो नैषेधिकीसप्तककः नषेधिकी
x स्वाध्यायभूमिः, तृतीय उच्चारप्रश्रवणविधिसप्तैककः, चतुर्थः शब्दसप्तैककः, पञ्चमो रूपसप्तककः, षष्ठः परिक्रियासप्तैकका, सप्तमोऽन्योन्यक्रियासप्तैकक इति । तथा महज्ज्झयणत्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धा
॥४३॥
Jain Education i
n
For Private Personel Use Only
Mainelibrary.org