________________
मनोवेगस्य तस्याऽऽसीत् , प्रियापुरीपतेः सुतः। पवनवेग इत्याख्यः, सुहृदयन्तवल्लभः॥२१॥ स्थातुमन्योऽयमुन्मुच्य, क्षणमेकं न लौ क्षमौ । दिनार्काधिव विख्यातो, तापभूतां प्रतापिनी ॥ २२॥ मिथ्यात्वमूढःपक्नवेगोऽभूदैवयोगतः। कुयुक्तिहेतुदृष्टान्तवादी तत्त्वपयोज्झितः ॥२३॥ मिथ्यात्वयुक्तं तन्मित्रं, जिनधर्मपराङ्मुखम् । दृष्ट्वा तताप शोकेन, मनोवेगः पवित्रधीः ॥ २४ ॥ निवारयामि मिथ्या(मित्र)त्वात् , पतन्तं दुर्गतावमुम् । प्राहुस्तं सुहृदं प्राझा, धर्मे योजयते हि यः॥ २५॥15|| मिथ्यात्वत्यागतो धर्मे, योजनीयः कथं मया । एष इत्याप चिन्तातो, नैव निद्रां मनोजवः ॥ २६ ॥ *मनोवेगो वन्दमानो, जिनेन्द्रायतनानि सः। भ्रमति स्म यदालस्यभाजो धर्म न सजनाः ॥ २७ ॥ नत्वा जिनेन्द्रबिम्बानि, कदाचित् प्रतिगच्छतः । मनोगस्य स्खलितं, विमानं व्योनि सत्वरम् ॥ २८॥ वैरिणा स्खलितं मे किं, विमानं? वा तपखिना? । दध्याविति मनोवेगो, व्याकुलो वीक्ष्य निश्चलम् ॥२९॥ ज्ञातुमिच्छुस्तत स्खलनाहेतुं पश्यन्महीमधः । ददर्श मालवं देशं, ग्रामाकरपुराञ्चितम् ॥३०॥ तस्यालुलोके मध्यस्थामुजयिनी महापुरीम् । भूमि द्रष्टुं समायातां, पुरन्दरपुरीमिव ॥ ३१ ॥ तस्या उत्तरदिगभागे, महोद्यानं सदाफलैः । वृक्षैः प्रीणितपान्थौघं, चकास्त्रि जितनन्दनम् ॥ ३२॥ तत्रालोक्य मुनि देवव्योमचारिनरार्चितम् । मुदं प्राप मनोवेगः, केवलज्ञानभास्करम् ॥ ३३॥
Jain Education
For Private & Personel Use Only
jainelibrary.org