________________
परीक्षा.
तत्रास्ति भारतं क्षेत्र, पवित्रं जिनजन्मभिः। आरोपितज्यं यच्चापं, श्रिया जयति दीप्रया ॥८॥ वैताठ्यः पर्वतस्तत्र, ध्वस्तध्वान्तः प्रभाभरैः। प्रर्वापराम्भोधितटावगाही योऽस्ति शेषवत् ॥९॥ इहाभूतां खगैः सेव्ये, श्रेण्याबुत्तरदक्षिणे । मदरेखे गजेन्द्रस्य, षट्पदैरुद्भटैरिव ॥ १०॥ तत्रोत्तरस्यां षष्टि नगराणि खचारिणाम् । पञ्चाशतं दक्षिणयां, विदुः सिद्धान्तवेदिनः ॥ ११ ॥ तत्र श्रेण्यां दक्षिणस्यां, वैजयन्त्यभवत्पुरी । जयन्ती खःपुरी गेहैर्विमानाधिकदीप्तिभिः ॥ १२ ॥ नभश्चरपतिस्तत्र, जितशत्रुरभूद्गुणी । खधामतर्जितारातिः, खःपुर्यामिव बासकः ॥ १३ ॥ वायुवेगा प्रिया तस्य, स्मरवायुप्रवर्धिनी। जिनेन्द्रमतनिष्णाताऽजनि विद्यौघसाधिका ॥ १४ ॥ रममाणस्तया साध, शच्येव सुरनायकः । जितशत्रुः सुखैः (ख) कालं, निनायेप्सितलामतः ॥१५॥ निषेव्यमाणा सा तेन, सुन्दरी जितशत्रुणा । असूत तनयं नाना, मनोवेगं महोदयम् ॥ १६ ॥ दिने दिनेऽसौ ववृधे, भानुमानिव दीप्तिमान् । समं गुणैः कलाभ्यासी, शुद्धवृत्तधरः स्थिरः ॥१७॥ विद्याः समग्रा जग्राह, विद्याधरकुलोचिताः । चतुर्बुद्धिनिधिलक्ष्मी-निवासः स्थितिमानसौ ॥१८॥ मुनिसेवापरो जैन-वाक्यपीयूषपानकृत् । धर्मरागी स बालोऽपि, बभूव परमार्हतः॥ १९॥ क्षायिकं सम्यक्त्वरत्नं, स बभार विशुद्धधीः । वशीकर्तुं सिद्धिवधूमनघाव्ययसौख्यदाम् ॥ २०॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org