SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठि-देवचन्दलालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्के। पण्डितपद्मसागरगणिविनिर्मिता। ॥धर्मपरीक्षा॥ ooo श्रीगुरुभ्यो नमः । नमः श्रीसरखतीभगवत्यै । यदीयज्ञानदीपेन, धोतितं विश्वमन्दिरम् । स वः पायाजिनाधीशः, पार्थः प्रत्यूहनाशनः ॥१॥ प्रसन्नोऽस्तु गुरुः सूर्यः, स येन जगदम्बुजम् । प्रबोधितं पुनर्याति, न निद्रामद्भुतं हि तत् ॥२॥ यस्याः प्रसादतः शास्त्रार्णवपारं जडा अपि । ब्रजन्ति तां त्रिधा शुद्ध्या, ध्यायामि श्रीसरखतीम् ॥३॥ गणेशनिर्मितां धर्मपरीक्षां कर्तुमिच्छति । मादृशोऽपि जनस्तन्न, चित्रं तत्कुलसम्भवात् ॥४॥ यस्तरभज्यते हस्तिवरेण स कथं पुनः । कलभेनेति नाशङ्कयं, तत्कुलीनत्वशक्तितः ॥५॥ चक्रे श्रीमत्प्रवचनपरीक्षा धर्मासागरैः । वाचकेन्द्रस्ततस्तेषां, शिष्येणैषा विधीयते ॥६॥ तथाहि-जम्बूद्वीपः स्फुरद्रत्नः,.सुवृत्तश्चक्रवर्त्तिवत् । अनेकद्वीपभूपाल-सेवितः सिद्धपद्धतिः॥७॥ JainEducation i n For Private Personal Use Only
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy