________________
अवचूरिक
मन्दिसूत्रम् ॥४८॥
समलंकृतम्
ALASANCHAR
आनुगामिकं, स्वार्थे का प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य तदानुगमिकं, यत् लोचनवत् गच्छंत अनुगच्छति तदवधिज्ञानं आनुगामिकमिति । तथा न आनुगामिकं अनानुगामिकं श्रृंखलाप्रतिबद्धप्रदीप इव यत् न गच्छंतं अनुगच्छति तदवधिज्ञानं अनानुगामिकं । उक्तं च-" अणुगामिओऽणुगच्छह गच्छंतं लोयणं जहा पुरिसं । इयरो उ नाणुगच्छह ठियप्पईवोध गच्छंतं ॥१॥" तथा वर्द्धत इति वर्द्धमान, ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरेंधनप्रक्षेपादभिर्वर्द्धमानदहनज्वालाकलाप इव पूर्वावस्थातो यथायोग प्रशस्तप्रशस्ततराध्यवसायभावतो अभिवर्धमानं अवधिज्ञानं वर्द्धमानकं, तच्चासद्विशिष्टगुणविधुद्धिसापेक्षत्वात् । तथा हीयते-तथाविधसामग्र्यमावतो हानि उपगच्छति [तत् ] हीयमानं, कर्मकर्ट विवक्षायामानश्प्रत्ययः, हीयमानमेव हीयमानकं, 'कुत्सिताल्पाबाते' [सि. है.७-३-३३.] इति कप्प्रत्ययः, पूर्वावस्थातो यत् अधोऽधो डासं उपगच्छति अवधिज्ञानं तत् हीयमानकं इति भावः। उक्तं च-"हीयमाणं पुवावत्थाओ अहोऽहो हस्समाणं" इति । तथा प्रतिपतनशीलं प्रतिपाति, यदुत्पन्नं सत् क्षयोपशमानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसं उपयाति तत् प्रतिपाति इत्यर्थः। हीयमानकप्रतिपातिनो का प्रतिविशेषः इति चेदुच्यते, हीयमानकं पूर्वावस्थातोऽधोऽधो डासं उपगच्छदभिधीयते । यत्पुनः प्रदीप इव निर्मूलं एककालं अपगच्छति तत् प्रतिपाति तथा न प्रतिपाति-यत् न केवलज्ञानात् अकि भ्रंशं उपयाति तत् अप्रतिपाति इत्यर्थः।
१-आनुगामिकानानुगामिकरूपभेदद्वये एव शेषभेदाः अन्तर्भावयितुं शक्यन्ते तथापि आनुगामिकानानुगमिकं चेत्युक्ते न वर्द्धमानकादयो विशेषा अवगन्तुं शक्यन्ते अतः विशेषभेदोपन्यासकरणमिति ज्ञेयम् ।
RECACASEAॐ
H४८..
AS
Jain Education Inte
For Private & Personel Use Only
ww.jainelibrary.org