________________
मन्दिसूत्रम्
अवनि
समलंकृतम्
CHECAUCAREGA
अत्रापि चशन्दौ प्रत्येकं स्वगतानेकमेदसूचकौ, पंचेंद्रियतिर्यग्मनुष्याणां चावधिज्ञानं नावश्यं मावि, ततः समानेऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते । परमार्थतः पुनः सकलमपि अवधिज्ञानं वायोपशामिकं ॥'को हेतु किं निमित्वं यत् वशात् अवधिज्ञानं बायोपशमिकं इत्युच्यते', क्षायोपशमिकं येन कारणेन तदावरणीयानां अवधिज्ञानावरणीयानां कर्मणां उदीर्णानां क्षयेण अनुदीर्णानां-उदयावलिको अप्राप्तानां उपशमेन-विपाकोदयविष्कंभलक्षणेन अवधिज्ञानं उत्पद्यतेऽनेन कारणेन वायोपशमिकं इति उच्यते । क्षयोपशमश्च देशषातिरससर्द्धकानां उदये सति भवति न सर्वघातिरसस्पर्द्धकानां, अथ किं इदं देशघातीनि सर्वघातीनि वा रसस्पर्धकानि इति ? उच्यते, इह कर्मणां प्रत्येकं अनंतानंतानि रसस्पर्द्धकानि भवंति, रसस्पर्द्धकस्वरूपं च कर्मप्रकृतिटीकायां सप्रपंचं उपदर्शितं इति न भूयो दयते ।
अह वा गुणपडिवनस्स अणगारस्स ओहिनाणं समुपज्जा तं समासओ छबिहं पन्नत्तं तं जहाआणुगामिअं, अणाणुगामि, वड्डमणियं, हीयमाणयं, पडिवाइय, अप्पडिवाइयं । सू० ॥९॥
'अथवा' इति प्रकारांतरोपदर्शने, प्रकारांतरता च गुणप्रतिपत्तिमंतरेणेत्यपेक्ष्य द्रष्टव्या, गुणा:-मूलोत्तररूपास्तान् प्रतिपन्नो गुणप्रतिपन्नः, अथवा गुणैः प्रतिपन्नः पात्रं इति कृत्वा गुणैः आश्रितो गुणप्रतिपन्ना, अगारं-गृहं न विद्यते यस्यासौ अनगारः, परित्यक्तद्रव्यमावगृह इत्यर्थः। तस्य-प्रशस्तेषु अध्यवसायेषु वर्चमानस्य सर्वघातिरसस्पर्द्धकेषु देशघातिरसस्पर्द्धकतया जातेषु पूर्वोक्तक्रमेण क्षयोपशमभावतोऽवधिज्ञानमुपजायते । तद् ' अवधिज्ञानं 'समासतः' संक्षेपेण 'पविध' षट्प्रकारं प्रबतं, तद्यथा-'आनुगामिकमि 'त्यादि, तत्र गच्छंतं पुरुष-आसमंतादनुगच्छति इत्येवं शीलं आनुगामि आनुगाम्येच
AAAAAAA
Pain
Jain Eduent an inter
For Private & Personel Use Only
jainelibrary.org