SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् | अवधिसमळंकृतम् तयावरणिज्जाणं कम्माणं उदिण्णाण खएणं अणुदिण्णाणं उवसमेणं ओहिनाणं समुपज्जइ । अथ किं तन् नोइंद्रियप्रत्यक्षं १, नोइंद्रियप्रत्यक्षं त्रिविध प्रज्ञप्तं, तद्यथा-अवधिज्ञानप्रत्यक्षं इत्यादि । अथ किं तत् | अवधिज्ञानप्रत्यक्ष अवधिज्ञानप्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा-मवप्रत्ययं च क्षायोपशमिकं च, तत्र भवंति कर्मवशवर्तिनः प्राणिनः अस्मिन्निति भवो-नारकादि जन्म 'नाम्नी'ति अधिकरणे घप्रत्ययः, भव एव प्रत्यय:-कारणं यस्य तद् भवप्रत्ययं, प्रत्ययशब्दश्च इह कारणपर्यायः, वर्त्तते च प्रत्ययशब्दः कारणत्वे, यत उक्तं-'प्रत्ययः शपथे ज्ञाने, हेतुविश्वासनिश्चये', चशब्दः स्वगतदेवनारकाश्रितमेदद्वयसूचका, तौ च द्वौ मेदौ अनंतरं एव वक्ष्यति । तथा क्षयश्च उपशमश्च क्षयोपशमौ ताम्यां निवृत्तं वायोपशमिकं, चशब्दः स्वगतानेकमेदसूचका, तत्र यत् एषां भवति तत् तेषां उपदर्शयति-दोण्हमित्यादि, द्वयोः जीवसमूहयोः भवप्रत्ययं, तद्यथा-देवानां नारकाणां च । तत्र दीव्यंति-निरुपमक्रीडा अनुभवंति इति देवास्तेषां, तथा नरान् कायति-शब्दयंति योग्यताया अनतिक्रमेणाकारयति जंतून स्वस्थाने इति नरकास्तेषु भवा नारकास्तेषां, चशब्द उभयत्रापि स्वगतानेकभेदसूचका, ते च संस्थानचिंतायां अग्रे दर्शयिष्यते । अत्र आह पर:-ननु अवधिज्ञानं वायोपशमिके भावे वर्तते नारकादिभवश्च औदयिके तत्कथं देवादीनां अवधिज्ञानं भवप्रत्ययं इति व्यपदिश्यते १, न एष दोषः, यतस्तदपि परमार्थतः क्षायोपशमिकं एव, केवलं सक्षयोपशमो देवनारकमवेषु अवश्य मावी पक्षिणां गगनगमनलन्धिः इव, ततो भवप्रत्ययं इति व्यपदिश्यते, तथा द्वयोः क्षायोपशमिकं तत् , यथा मनुष्याणां च पंचेंद्रियतिर्यग्योनिजानां च, १-पुं नाम्निघः' इति सि. है.५-३-१३०. सूत्रमुपलभ्यते । GRACES R ELASS Jain Education Inter For Private & Personal Use Only Paw.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy