SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥४५॥ अवचूरि४ समलंकृतम् CHURCHORRORHORROR इंद्रियप्रत्यक्षं पंचविधं प्राप्तं, तद्यथा-श्रोत्रंद्रियप्रत्यक्षं इत्यादि, तत्र श्रोत्रंद्रियस्य प्रत्यक्षं श्रोत्रंद्रियप्रत्यक्षं । श्रोत्रंद्रियं निमिचीकृत्य यदुत्पनं ज्ञानं तत् श्रोत्रंद्रियप्रत्यक्षमिति भावः । एवं शेषेषु अपि भावनीयं । एतच्च व्यवहारत उच्यते, न परमार्थत इति अनंतरं एव प्रागुक्तं । आह-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि इंद्रियाणि इति क्रमः, अयमेव च समीचीन:, पूर्वपूर्वलाम एव उत्तरोत्तरलाभसंभवात्ततः किमर्थ उत्क्रमोपन्यासः कृतः१, उच्यते, अस्ति पूर्वानुपूर्वी, अस्ति पश्चानुपूर्वीति न्यायप्रदर्शनार्थ, अपि च-शेषंद्रियापेक्षया श्रोत्रंद्रियं पटु, ततः श्रोत्रंद्रियस्य प्रत्यक्षं तत् शेषंद्रियप्रत्यक्षापेक्षया स्पष्टसंवेदनं, स्पष्टसंवेदनं च उपवर्ण्यमानं विनेयः सुखेन अवबुध्यते, ततः सुखप्रतिपत्तये श्रोत्रंद्रियादिक्रमः उक्तः॥ से किं तं नोइंदिअपञ्चक्खं ? नोइंदिअपञ्चक्खं तिविहं पन्नतं, तं जहा-ओहिनाणं नोइंदिअपञ्चक्खं । मणपज्जवनाणं नोइंदिअपच्चक्ख । केवलनाणं नोइंदिअपच्चक्खं । से किं तं ओहिनाणनोइंदिअपञ्चक्ख ? ओहिनाणनोइंदिअपचक्ख दुविहं पन्नत्तं,तं जहा-भवपच्चइअंच खओवसमिअंच । से किं तं भवपच्चइयं? भवपच्चयं दोण्हं पन्नत्तं, तं जहा देवाण य नेरइआण य। से किं तं वओवसमि खओवसमिअं दुविहं पन्नत्तं, तं जहा-मणूसाण य पंचिंदिअतिरिक्खजोणिआण य । को हेऊ खओवसमिअं? खओवसमिअं । १-प्रत्यक्षशब्दस्य केचित् अक्षं अक्षं प्रति वर्तते इत्यव्ययीभावं विदधति तच्च न युज्यते-अनुयोगद्वारटीकायां-निषिद्धत्वात् किन्तु प्रतिगतम्-आश्रितमक्षं प्रत्यक्षमिति तत्पुरुष एवं प्रायः अव्ययीभावे त्रिलिजताभावात्-प्रत्यक्षो बुद्धिः प्रत्यक्षो बोधः प्रत्यक्षं ज्ञानमिति त्रिलिङ्गवा न स्यादिति भावः । FACACAMARCH ॥४५॥ HainEducation Inter For Private Personel Use Only H w .jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy