SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥ ३९ ॥ अवचूरिसमलंकृतम् AACARRRRRRRRROR**** मृदोरपि गुरोः खरपरुषप्रत्युच्चारणादिना कोपप्रकोपकाः, यत उक्तं उत्तराध्ययनेषु-"अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा" इति । अपि च-गुणगुरवो गुरवस्ततः ते यदि कथं अपि दुष्टशैक्षशिक्षापणे न कोपं उपागमन् तथापि तेषां भगवदाज्ञाविलोपतो गुर्वी आशातना ततश्चोपचिताशुभगुरुकर्माणोनियमतो दीर्घतरसंसारभागिनः, किञ्च-एवं स वर्तमानो मतिमान् अपि श्रुतरत्नादहिर्भवति । अन्यत्रापि तस्य दुर्लभश्रुतत्वात् कोहि नाम सचेतनो दीर्घतरजीविताभिलाषी सर्पमुखे स्वहस्तेन पयोबिन्दन प्रक्षिपति इति, स एकान्तेन अयोग्यः ? प्रतिपक्षभावनायां अपि इदमेव कथानकं परिभावनीयं, केवलं इह घृतघटे भन्ने सति द्वौ अपि तो दम्पती त्वरितं त्वरितं कप्परे यथाशक्ति घृतं गृहीतवन्ती, स्तोकं एव विननाश, निन्दति च आत्मानं आभीरो यथा-हा न मया घृतघटः ते सम्यक् समर्पितः, आभीर्यपि वदति-समप्पिंतस्त्वया सम्यक्, परं न मया सम्यक् गृहीतः, तत एव तयोः न कोपावेशदुःखं नापि घृतहानि नापि सकाल एव अन्यसार्थिकैः सह स्वग्रामं अभिसर्पतां अपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जाती, एवमिहापि कथंचित् अनुपयोगादिनाऽन्यथारूपे व्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन मरिणा शैक्ष पूर्वमुक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्तव्यं-वत्स! मैवं व्याख्यः, मया तदानीं अनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि ।। तत एवं उक्ते सति यो विनेयः कुलीनो विनीतात्मा स एवं प्रतिवदति-यथा भगवंतः? किं अन्यथा प्ररूपयंति', केवलं अहं मतिदौर्बल्यादन्यथावगतवान् इति, स एकान्तेन योग्यः ?, एवं विधाश्च विनेयाः प्रहादितगुरुमनसः श्रुतार्णवपारगामिनो जायन्ते, चारित्रसंपदश्च भागिनः ॥ १४ ॥ तदेवं एकैकं शैक्षं अधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतं । संप्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयति । ॥ ३९॥ 968C Jain Education Wilwjainelibrary.org a For Private Personal Use Only l
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy