________________
नन्दिसत्रम्
98565650%
गत्य वणिगापणेषु पणायितुं प्रवृत्तो, घटितश्च पणाय संदूंकः, ततः समारब्ध घृतमापे गंत्र्या अधस्तादवस्थिता आभीरी, घृतं भावारकेण समर्प्यमाणं प्रतीच्छति । ततः कथं अपि अर्पणे ग्रहणे वानुपयोगक्त अपांतराले बारकापरपर्यायो लघुघृतघटो भूमौ निपत्य खंडशो अवचूरिभग्नः, ततो घृतहानिदुर्मनाः पतिः उल्लपितं खरपरुषवाक्यानि प्रावर्तत । यथा हा पापीयसि ? दुःशीले कामविडंक्तिमानसे? नरतरुणि
समलकृतम् माभिरमणीयं पुरुषान्तरं अबलोकसे न सम्यग्घृतघट अभिगृह्णासि । ततः सा खरपरुषवाक्यश्रवणतः समुत्थितकोपावेशवशोच्छलितकंपितपीनपयोधरा स्फुरदधरबिंबोष्ठी दरोत्पाटितभूः एपा धनुःअवष्टंभतो नाराचश्रेणिमिव कृष्णकटाक्षसंतति अविरतं प्रतिक्षिपत् प्रत्युवाच-हा ग्रामेयकाधम ! घृतघटं अपि अवगणय्यविदग्धमत्तकामिनीनां मुखारविंदानि अवलोकसे, न च एतावतावतिष्ठसे, ततः खर-15 परुषवाक्यैः मामपि अधिक्षिपसि । ततः स एवं प्रत्युक्तोऽतीवज्वलितकोपानलो यत्किचिदसिद्ध भाषितुं लग्नस्ततः साप्येवं, समभूत्तयोः केशाकेशी, ततो विसंस्थुलपादादिन्यासतः सकलं अपि प्रायो गंत्रीघृतं भूमौ निपतितं । तत्किचित्स्तोकं अपगतमवशेष चावलीढं श्वभिः, गंत्रीघृतं अपि शेषीभूतमपहृतं पश्यतो हरैः, सार्थिका अपि स्वं स्वं घृतं विक्रिय स्वग्रामगमनं प्रपन्ना स्ततः प्रभूतदिवसभागातिक्रमेण अपमृते युद्धे स्वास्थ्ये च लब्धे यत् किंचित्प्रथमतो विक्रयामासतुघृतं तत् द्रव्यमादाय तयोः स्वग्रामं गच्छतो अपांतराले अस्तंगते सहस्रभानौ सर्वतः प्रसरं अभिगृह्णति तमोविताने परास्कंदिनः समागत्य वासांसि द्रव्यं बलीवौ च अपहृतवंतस्तत एवं तौ महतो दुःखस्य भाजनं अजायेतां । एष दृष्टान्तोऽयमुपनयः-यो विनेयोऽन्यथा प्ररूपयन् अधीयानो वा कथं अपि खर| परुषवाक्यैः आचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रतिवदति-यथा त्वया एव इत्थमहं शिक्षितः, किं इदानीं निड्नु ? इत्यादि, स
५३८॥ न केवलं आत्मानं संसारे पातयति, किन्तु आचार्य अपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनाद्भवन्ति च कुविनेया
Join Education in
For Private & Personal Use Only
jainelibrary.org