SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ L है नन्दिसूत्रम् ॥ ३५॥ अवचूरिसमलंकृतम् सर कौटुम्बिको धर्मश्रद्धया चतुर्म्यश्चतुर्वेदपारगामिभ्योगां दत्तवान् , तेऽपि च पूर्ववत् परिपाट्यादोग्धुमारब्धास्तत्र यस्य यस्य प्रथमदिवसे सा गौरागता स स चिंतितवान् , यदि अहं अस्याः चारिं न दास्यामि ततः क्षुधा धातुक्षयादेषा प्राणानपहास्यति । ततो लोकेंषु मे गोहत्याऽवर्णवादो भविष्यति । पुनरपि चास्मभ्यं न कोऽपि गवादिकं दास्यति, अपि च-यदि मदीयचारिचरणेन पुष्टा सती शेषः अपि ब्राह्मणै?क्ष्यति ततो मे महाननुग्रहो भविष्यति, अहमपि च परिपाट्या पुनः अपि एनां धोक्ष्यामि, ततोऽवश्यमस्यै दातव्या चारिः इति ददौ चारिं, एवं शेषा अपि ददुः । ततः सर्वेऽपि चिरकालं दुग्धाभ्यवहारभाजिनो जाताः, लोके च समुच्छलितः साधुवादो लभन्ते च प्रभूतं अन्यदपि गवादिकं, एवं येऽपि विनेयाः चिन्तयन्ति-यदि वयं आचार्यस्य न किमपि विननयादिकं विधातारः तत एषोऽवसीदन् अवश्यं अपगतासुभविष्यति । लोके च कुशिष्या एते इति अवर्णवादो विजृमिष्यते, ततो गच्छान्तरेऽपि न वयमवकाशं लप्स्यामहे । अपि च-अस्माकं एष प्रव्रज्याशिक्षावतारोपणादिविधानतो महानुपकारी, सम्प्रति च जगति दुर्लभं श्रुतरत्नं उपयच्छन् वर्तते । ततोऽवश्यमेतस्य विनयादिकं अस्माभिः कर्तव्यं, अन्यच्च-यदि अस्मदीयविनयादिसहायकबलेन प्रातीच्छिकानां अपि आचार्यत उपकारः किं अस्माभिन लब्धम् ?, द्विगुणतरपुण्यलाभश्च अस्माकं भवेत् । प्रातीच्छिका अपि ये चिन्तयन्ति-अनुपकृतोपकारी भगवान् आचार्योऽस्माकं, को नामाज्यो महान्तमेवं व्याख्याप्रयासमस्मन्निमित्तं विदधाति । किं एतेषां वयं प्रत्युपकर्तुं शक्काः । तथापि यत् कुर्मः सः अस्माकं महान् लाभ इति पनिरपेक्षं विनयादिकं आदधते, तेषां नावसीदति आचार्योऽव्यवच्छिन्ना च सूत्रार्थप्रवृत्तिः, समुच्छलति च सर्वत्र साधुवादा, गच्छान्तरे च तेषां सुलभं श्रुतज्ञानं परलोके च सुगत्यादिलाम इति ॥१२॥ Jain Education Ion For Private & Personel Use Only w ww.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy