________________
नन्दिसत्रम्
॥३४॥
| अवचरिसमलंकृतम्
गोशीर्षचन्दनमयीं अशिवोपशमनी देवो भेरीमदात् , कल्पं च अस्याः कथयामास-यथा षण्मासषण्मासपयते निजास्थानमंडपे वाद्या एषा मेरी, शब्दश्च अस्याः सर्वतो द्वादशयोजनव्यापी जलभृतमेघध्वनिः इव गम्भीरो विभिष्यते । यश्च शब्दं श्रोष्यति तस्य प्राक्तनो व्याधिः नियमतः अपयास्यति, भावी च भूयः षण्मासादाक् न भविष्यति । तत एवं उक्त्वा देवः स्वस्थानं अगमत् । वासुदेवोऽपि तां मेरों सदैव भेरीताडननियुक्तान समर्पितवान् , शिक्षा चास्मै ददौ। यथा षण्मास २ पर्यंते मम आस्थानमण्डपे. वाद्या एषा त्वया भेरी, यत्नतश्चावनीया, ततः सकलस्वलोकसामन्तादिबलसमन्वितो निजप्रासादमायासीत् । मुत्कलितश्च प्रतीहारेण सर्वोऽपि लोकः, ततो द्वितीयदिवसे मुकुटोपशोभितानेकपार्थिवसहस्रपर्युपास्यमानो निजास्थानमण्डपे विशिष्टसिंहासनोपविष्टः शक्र इव देवैः परिवृतो विराजमानः तां मेरी अताडयत् । भेरीशब्दश्रवणसमनंतरं एव च दिनपतिकरनिकरताडितं अंधकार इव द्वारवतीपुरि सकलं अपि रोगजालं विध्वंसं उपागमत् । ततः प्रमुदितः सर्वोऽपि पौरलोकः आशास्ते सदैव अधिपतित्वेन जनाईनं, तदेवं व्याधिविकले गच्छति काले कोऽपि दूरदेशान्तरवर्ती धनाढ्यो महारोगाभिभूतो भेरीशब्दमाहात्म्यं आकर्ण्य द्वारवती आगमत् , स च दैवविनियोगाद् मेरीताडनदिवसातिक्रमे प्राप्तः। ततोऽचिन्तयत्-कथं इदानीं अहं भविष्यामि ?, यतो भूयो भेरीताडने पण्मासातिक्रमे, पभिश्च मासैः एष प्रवर्द्धमानो व्याधिः असूनपि नियमात्कवलयिष्यति । ततः किं करोमि इति ?, तत इत्थं कतिपयदिनानि चिन्ताशोकसागरनिमनः कथं अपि शेमुषीपोतमासाद्योन्मक्तं लग्नो-यथा यदि तस्याः शब्दतोऽपि रोगोऽपयाति ततस्तदेकदेशस्य घपित्वा पाने सुतरां अपयास्यति, प्रभृतं मे स्वं, ततः प्रलोभयामि धनेन ढाकिक, येन तच्छकलं एकं मे समर्पयति । ततः प्रलोभितो धनेन ढाकिकः, नीचसत्वा हि दुष्टदारा इव निरन्तरं धनादिभिः सन्मान्यमाना अपि व्यभिचरन्ति निजपतेः,
॥३४॥
+Ste
Jain Educationa
la
For Private & Personel Use Only
Alainelibrary.org