SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नदिसूत्रम् ॥ ३३ ॥ Jain Education अश्वरत्नं सकललोकसमक्षं अपहृतवान्, भावितथ मार्गतः सर्वोऽपि उद्गीर्णखमुकुन्तादिः अङ्गरक्षकादिपदातिवर्गः, समुच्छलितश्च महान् कोलाइलो ज्ञातथ अयं व्यतिकरः केशवेन, प्रधाविताच सकोपं विशोदिशं सर्वेऽपि कुमाराः, मुंचन्ति च यथाशक्ति प्रहारान्, परं सुरो दिव्यशक्त्या तान् सर्वानपि लीलया विजित्य मंदं २ गन्तुं प्रवृत्तः, ततः प्राप्तः केवचः पृष्टश्च तेन अश्वापहारी-भोः किं मदीयं अश्वरत्नं अपहरसि १ । तेन उक्तं शक्नोमि अपहर्नु, यदि पुनः अस्ति ते काऽपि शक्तिस्तर्हि मां युद्धे विनिर्जित्य प्रतिगृहाण, ततः केशवः तत्पौरुषरंजितमनस्कः सहर्षं एवमवादीत्-भो महापुरुष ! येन युद्धेन ब्रूषे तेन युध्येऽहं ततः सर्वाणि अपि युद्धानि केशव नामग्राहं वक्तुं प्रवृत्तः प्रतिषेधति च सर्वाणि अपि सुरसग्रजन्मा, ततो भूयः केशवो वदति - कथय तर्हि केन युद्धेन युध्येऽहं इति, ततः स प्राह-पूतयुखेन, ततः कर्णौ पिधाय शल्यहृदय इव हाशब्दव्याहारपुरस्सरं तं प्रत्येवमवादीत्-गच्छ गच्छ अश्वरत्नं अपि गृहीत्वा, न अहं नीच, जेन युध्ये इति, तदेतत् श्रुत्वा हर्षवशोभितपुलकमालोपशोभितं वपुः आदधानः सविस्मयं सुरसंद्मजन्मा खचेतसि चिंतयामास - अहो महोत्तमता केशवानामत एवं शतसहस्रसंख्यन मदमर किरीटको टिसङ्घर्षमसृणीकृत पादपीठानां मघवतां अपि एते प्रशंसाहस्तत एवं चिन्तयित्वा सानन्दमवेक्ष्यमाणो वक्तुं प्रवृत्तो भोः केशव ! न अहं अश्वापहारी, किन्तु स्वगुणपरीक्षानिमित्तं एवं कृतवान्, ततः सकलं अपि शक्रप्रशंसादिकं पूर्ववृत्तांतं अभ्वकथत् । ततः स्वगुणप्रशंसाश्रवणलज्जितोऽवनतमनाकंधरः कुम्मलितकरसंपुटो जनार्दनस्तमुदंतपर्यंते मुत्कलयामास स्वस्थाने, सुरोऽपि च सकलविश्वासाधारणकेशवगुणदर्शनतो हृष्टमनाः तं प्रत्येनं अवादीत्-महापुरुष ! देवदर्शनं अमोघं मनुजजन्मनां इति प्रवादो जगति प्रसिबो मा विफलतामापत् इति वद किंचिदभीष्टं येन करोमि, इति ततः केशवोऽब्रवीत् - वर्त्तते संप्रति द्वारवत्यां अशिवं, ततः तत्प्रतिविधानं आतिष्ठ, येन भूयोऽपि न भवति । ततो For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ ३३ ॥ w.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy