________________
न्दिसत्रम्
अवचूरिसमलंकृतम्
%*%*
तथा च मुद्गशैलच्छिद्रकुटचालिनीसमानशिष्यभेदप्रदर्शनार्थ उक्त भाष्यकृता । “सेलेय च्छिद्द चालिणी, मिहो कहा सोउमुट्ठियाणं तु । छिद्दाह तत्थविठ्ठो सुमरिंसु रामिसनेयाणि ॥१" "एगेण बीसइ वीएण नीइ कण्णेण चालणी आह धन्नोत्थ आह सेलो जं पविसइ नीसरइ वा तुझं ॥२॥" तत एषोऽपि चालनीसमानो न योग्यः चालनीप्रतिपक्षभृतं च वंशदलनिर्मापितं तापसभाजनं, ततो हि बिंदुमात्रं अपि जलं न स्रवति । उक्तं च-"तावसखउरकठिणयं चालणिपडिवक्ख न सवइ दवं पि" [परिपूणगम्मिय गुणा गलंति | दोसाय चिठंति ॥ ३ ॥] ततस्तत्समानो योग्यः इति ॥ ५॥
संप्रति परिपूणकदृष्टांतो भाव्यते । परिपूणको नाम घृतक्षीरगालकं सुगृहामिधचटिकाकुलायो वा, तेन हि आमीर्यों घृतं गाल| यति । ततो यथा सपरिपूणकः कचवरं धारयति घृतं उज्झति, तथा शिष्योऽपि यो व्याख्यावाचनादौ दोपान् अभिगृह्णाति गुणांस्तु मुंचति स परिपूणकसमानः, स च अयोग्यः । आह च आवश्यकचूर्णिकृत्-"वक्खाणाईसु दोसा हिययंमि ठवइ शयइ गुणजालं । सो सीसो उ अजोगो भणिओ परिपूणगसमाणो ॥१॥" आह च-सर्वज्ञमतेऽपि दोषा संभवंति इति अश्रद्धेयं । एतत्सत्यमुक्तं अत्र भाष्यकृता-सव्वण्णुपामण्णा दोसा हुन संति जिणमए के वि । जे अणुवउत्तकहणं अपत्तमासज्जम व हवेज्ज ॥१॥६॥"
संप्रति हसदृष्टान्तभावना-यथा हंसः क्षीरमुदकमिश्रितं अपि उदकं अपहाय क्षीरं आपिबति तथा शिष्योऽपि यो गुरोः अनुपयोगसम्भवान् दोषान् अवधूय गुणानेव केवलान् आदत्ते स हंससमानः, स च एकान्तेन योग्यः। ननु हंसः क्षीरं उदकमिश्रितं अपि कथं विभक्तीकरोति ?, येन क्षीरं एव केवलं आपिबति न तु उदकं इत्युच्यते । वत् जिह्वाया आम्लत्वेन क्षीरस्य. कूर्चिकीभूय
%*%*%
॥३०॥
CE%**
For Private Personal use only
S
w
.jainelibrary.org