SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ नन्दिसूचम ROPERA% अवचूरिसमलंकृतम् SEXUASSASAGOOG चनिकादिमाविता अपि वाम्याः, ये च संक्प्रिभाविता अवाम्यास्ते सर्वेऽपि योग्या, शेषा अयोग्याः, अथवाऽन्यथा कुटदृष्टान्तभावना इह चत्वारः कुटाः, तत् यथा छिद्रकुटः, कण्ठहीनकुटा,खण्डकुटा, [सम्पूर्णकुटच, [तत्र यस्याधोबुध्ने छिद्रं स च्छिद्रकुटः], यस्य पुनः ओष्ठपरिमण्डलामावः स कंठहीनकुटः, यस्य पुनः एकपाचे खण्डे हीनः स खण्डकुटः, यः पुनः सम्पूर्णावयवः स सम्पूर्णकुटः, एवं शिष्या अपि चत्वारो वेदितव्याः। तत्र यो व्याख्यानमण्डल्या उपविष्टः सर्वमवबुध्यते व्याख्यानादुत्थितश्च न किमपि स्मरति स 8 छिद्रकुटसमानो, यथा हि च्छिद्रकुटो यावत्तदवस्थ एव गाढमवनिसंलग्नोऽवतिष्टते [न] तावत्किमपि जलं ततः स्रवति, स्तोकं वा किश्चिदिति । एवमेषोऽपि यावदाचार्यः पूर्वापरानुसंधानेन सूत्रार्थमुपदिशति तावत् अवबुध्यते, उत्थितश्चेत् व्याख्यामण्डल्याः तर्हि स्वयं पूर्वापरानुसंधानशक्तिविकलत्वात् न किमपि अनुस्मरतीति,यस्तु व्याख्यानमण्डल्यां अपि उपविष्टोऽर्द्धमात्रं त्रिभागं चतुर्भागं वा | हीनं वा सूत्रार्थ अवधारयति यथावधारितं च स्मरति स खण्डकुटसमानः, यस्तु किश्चिनं स्त्रार्थ अवधारयति पश्चादअपि तथैव च | स्मरति स कण्ठहीनः कुटसमानः, यस्तु सकलमपि सूत्रार्थ आचार्योक्तं यथावदवधारयति पश्चादपि तथैव स्मृतिपथं अवतारयति स संपूर्णकुटसमानः, अत्र छिद्रकुटसमानः एकांतेनायोग्यः, शेषास्तु योग्याः, यथोत्तरं च प्रधानाः प्रधानतरा इति ॥३॥ संप्रति चालनीदृष्टान्तभावना । चालिनी लोकप्रसिद्धा, यया कणिकादि चाल्यते । यथा चालिन्यामुदकं प्रक्षिप्यमाणं तत्क्ष8 णादेव अधोगच्छति न पुनः कियन्तं अपि कालं अवतिष्ठते । तथा यस्य सूत्रार्थःप्रदीयमानो यदाएव कर्णे प्रविशति तदा एव विस्मृ तिपथमुपैति स चालिनीसमानः ॥४॥ C ॥२९॥ Jan Education For Private Personal Use Only lainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy