SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ दिसूत्रम् ॥ २८ ॥ Jain Education परिचाओ सुत्तअत्थपलिमंथो । अन्नेसिं पिय हाणी पुट्ठावि न दुद्धया वंज्जा ॥ १ ॥” मुद्गशैलप्रतिपक्षभूतो योग्यशिष्यविषयो दृष्टान्तः कृष्णभूमिप्रदेशः । तत्र हि प्रभूतमपि जलं निपतितं तत्र एवांतःपरिणमति, न पुनः किंचिदपि ततो बहिरपगच्छति, एवं यो विनेयः सकलसूत्रार्थग्रहणधारणसमर्थः स कृष्णभूमिप्रदेशतुल्यः, स च योग्यस्ततः तस्मै दातव्यमिदमध्ययनमिति, आह च भाष्यकृत् "डेवि दोणमेहे न कण्हभोमाओ लोट्टए उदयं । गहणधरणासमत्थे इय देयमिच्छित्ति कारिति ॥ १ ॥ " संप्रति कुटजदृष्टांत भावना क्रियते । कुटा-घटाः ते द्विधाः- नवीना जीर्णाश्च तत्र नवीना नाम ये संप्रत्येदापाकतः समानीताः, जीर्णाः द्विविधा- भाविताः अभाविताश्र, भाविता द्विधाः - प्रशस्तद्रव्य भाविता अप्रशस्तद्रव्यभाविताश्च तत्र ये कर्पूरागुरुचंदनादिभिः प्रशस्तैर्द्रव्यैर्भाविताः ते प्रशस्तद्रव्य भाविताः, ये पुनः पलांडुलशन सुरातैलादिभिर्भावितास्ते अप्रशस्तद्रव्यभाविताः, प्रशस्तद्रव्य भाविता afe faar - वाम्या अवाम्याश्थ, अभाविता नाम ये केनापि द्रव्येण न वासिताः, एवं शिष्या अपि प्रथमतो द्विधाः- नवीना जीर्णाश्च, तत्र ये बालभाव एवाद्यापि वर्ततेऽज्ञानिनः संप्रत्यवबोधयितुमारब्वास्ते नवीनाः, जीर्णा द्विधाः- भाविता अभाविताश्च । तत्रा| भाविता ये केनापि दर्शनेन न वासिताः । भाविता द्विधा - कुप्रावचनि कपार्श्वस्थादिभिः संविग्नैश्च कुप्रावचनिकपार्श्वस्थादिभिरपि भाविता द्विधा वाया अवाम्याश्च, संविग्नैरपि भाविधाः द्विधाः -वाम्या अवाम्याश्च तत्र ये नवीना ये जीर्णा अभाविता ये च कुप्राव For Private & Personal Use Only अवचूरिसमलंकृतम् २८ ॥ Inelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy