________________
नन्दिसूत्रम्
॥२७॥
अवचूरिसमलंकृतम्
RECARRRRRRRRR
इति । तत एवमुक्त भ्रष्टप्रतिज्ञमात्मानमवबुध्य लज्जावनतकंधराशिरोनयनः पुष्करावर्ती यत्किंचिदाभाष्य स्वस्थानं गतः, एवं दृष्टांतः, उपनयस्तु अयं-कोऽपि शिष्यो मुद्गशैलसमानधर्मा निरंतरं यत्नतः पाठ्यमानोऽपि पदमप्येकं भावतो नावगाहते, ततोऽयोग्यो ऽयमिति कृत्वा आचार्यैरुपेक्षितः, तमवबुध्य कोऽप्यन्य आचार्योऽभिनवतरुणिमावेगवशोजूंभितमहाबलपराक्रमोऽत एवागणितव्याख्याविधिपरिश्रमो यौवनिकामदवशतोऽपरिभावितगुणागुणविवेको वक्तु मेवं प्रवृत्तो यथा एनमहं पाठयिष्यामि। पठति च || लोकानां पुरतः सुभाषितं, " आचार्यस्यैव तज्जाड्यं, यत् शिष्यानावबुध्यते । गावो गोपालकेनैव, कुतीर्थेनावतारिताः॥१॥" ततस्तं सर्वादरेण पाठयितुं लना, स च मुद्गशैल इव दृढप्रतिज्ञो न भावतः पदमप्येकं स्वचेतसि परिणमयति । ततः खिमशक्तिः आचार्यो भ्रष्टप्रतिज्ञमात्मानं जानानो लज्जितो यत्किमप्युत्तरं कृत्वा तत्स्थानादपसृत्य गतः, तत एवं विधाय नेदमध्ययनं दातव्यं यतो न खलु बंध्या गौः शिरःशृंगवदनपृष्टपुच्छोदरादौ सस्नेहं स्पृष्टापि सती दुग्धप्रदायिनी भवति । तथास्वाभाव्यादेव एषोऽपि सम्यक् पाठ्यभानोऽपि पदमप्येकं नावगाहते, ततो न तस्य तावदुपकारः, आस्तां तस्योपकाराभावः प्रत्युत आचार्ये सूत्रे चापकीतिरुपजायते, यथा न सम्यक् कौशलमाचार्यस्य व्याख्यायां, इदं चाध्ययनं न समीचीनं, कथमयमन्यथा नावबुध्यते ?, इत्यपि च-तथाविधकुशिष्यपाठने तस्थावबोधाभावात उत्तरोत्तरसूत्रार्थानवगाहने सूरेः सकलावपि शास्त्रांतरगतौ सूत्रार्थों भ्रंशमाविशतोऽन्येषामपि च पटुश्रोतणामुत्तरोत्तरसूत्रार्थावगाहनहानिप्रसंगः, उक्तं च भाष्यकारेण-"आयरिए सुत्तमिय
॥१७॥
HainEducation
For Private Personal use only
jainelibrary.org